पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचार: 271 6 , षणतात्वादिरूपेण वाक्यार्थः । अन्यथा नपदस्य तत्र शक्तयभावेन नानाञ्प्रत्यययोः स्वार्थिकत्वेन भाष्यादावुक्तत्वेन च नानापदार्थविधया तल्लाभासंभवात् । नानाविष्णुं मोक्षदो नेत्यदावपि मोक्षदो विष्णुभिन्नो नेत्यर्थः । उक्तसूत्रस्याप्यत्रैव तात्पर्य, उक्तामरोक्तिमात्रेण नानाशब्दस्य विनाशब्दसमानार्थकत्वे पृथक्छब्दस्यापि तदापत्तेः । मन्मते त्वभावव- त्संबन्धस्थ वर्जनशब्देनोक्तत्वात् । पृथकपदस्य तद्वोषकत्वेप्युक्तरीत्या भिन्नत्वरूपेण पृथक्तागुण रूपेण वाऽभाववच्छक्यम् । विनाशब्दार्थे प्रयोगाभावस्तु नानाशब्देऽपि तुल्यः; तस्य तथा प्रयोगसत्वेऽपि विनाशब्दस्येव भिन्नतादात्म्यार्थकत्वस्यापि संभवात भिन्नात्मकं किमपि नास्तीत्यर्थे बाघकाभावात् । ननु – ब्रह्माणि निषिद्धमपि दृश्यमन्यत्र सत्व संभवान्न मिथ्या; 'यस्मिन्यौः पृथिवी' त्यादिना ब्रह्माण प्राप्तस्य तत्र निषिद्धत्वेन मिथ्यात्वोक्त्या तु तस्यैव शास्त्रस्य विरोध इति - तन्न कारणत्वान्यथानुपपत्तिप्राप्तब्रह्मसंबन्धस्योक्तशास्त्रेणानुवादाद्धर्मादि- .2 शास्त्रस्येव तच्छास्त्रस्यापि निषेधशास्त्रेण बाध्यत्वाच्च । ननु - सर्वदृश्यानां ब्रह्मणः शरीरत्वेन विशेषणत्वाद्विशिष्टं ब्रह्माद्वितीय मित्यद्वैतश्रुत्यर्थः । अविमान'मद्वैतमुपासनार्थं वैराग्यार्थ वोक्तमिति वेति- चेन्न'; एकमेवा- द्वितीय मित्यादेः शुद्धब्रह्मप्रकरणस्थत्वात् विशिष्टाद्वैतस्याशब्दार्थत्वात् 'तमेव बिदित्वेत्यादिश्रुत्या शुद्धस्यैव ज्ञेयत्वेनोक्तत्वात् इहेत्यादेरपि शुद्धब्रह्मबोधकत्वात उपासनादेरश्रूयमाणत्वाच्च । अथाद्वितीयशब्देन दृश्यमात्र निषेध इत्ययुक्तम् '; 'आत्मा वा इदमेक एवाग्र आसीन्नान्य- त्किंचन मिष' दित्यादौ दृश्यस्य मिषत्वेन निषेधादत्रापि तथा वाच्य- त्वात् 'छागो वा मन्त्रवर्णा, दितिन्यायात्पश्वादिसामान्यशब्दस्य विशेष- परत्वत् । किंच द्वितीयशब्दः समद्वितीये व्युत्पन्न इति न तस्य तद -- 1 पृथक्त -ग. 2 चेन्न- ग. 3 अविद्यमान - क. ग. 4 क्तमिति -- चेन-ग. ०७३ •" इत्युकम्-ग.