पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

260 • सव्याख्यायामंद्वैतसिद्धौ [प्रथमः निषेधार्थत्वात् । विवृतं 'चैतद्भाष्यकारादिभिरारम्भणाधिकरणे । न च – सद्व्यतिरेकेणासत्वोक्तौ सदात्मना सत्यत्वमागच्छतीति- वाच्यम्; आगच्छतु नाम, को हि ब्रह्माभित्रस्यासत्वसाधनाय सत्वमुच्यते, किंतु सदभिन्न प्रपञ्चस्य । तथाच तन्निषेषे नासत्वरूपमि- ध्यात्वलामात्सत्वम्य चासीदित्यनेन लाभाद्विरोध इत्यर्थः || ४ घटादिकं स्वोत्पत्तिपूर्व मृदेवासीदित्यादौ यथा घटायमेदो- पलक्षितमृदेवासीदित्यर्थस्तथा प्रकृतेऽपीदमभेदोपलक्षितं सदेवाग्र आसी- दिति सत्यार्थ इत्याशयेनाह - सय तिरेकेणेति । सदन्यत्व- रूपणेत्यर्थः । सदन्यदिति शेषः । निषेधार्थत्वात् सदेवेत्येवकारा- र्थत्वादद्वितीयादिपदार्थत्वाच्च एवंच प्रपञ्चे सत्वसंबन्धो बुध्यत एव । नेतनविरोधशङ्का; विशेष्यसङ्गतैवकारस्यान्ययोगव्यवच्छेदकत्वं च युक्तमिति सदन्यसामान्येऽग्रकालसत्वाभावो बुध्यत इति भावः । एतत् सदेवेत्यादि वाक्यम् । आरम्भणाधिकरण इति । 'सत्वाञ्चावरस्ये' त्यादि- सूत्रेष्विति शेषः । तत्र हि प्रागुत्पत्तेः कारणात्मनैव सत्वं कार्यस्य ; 'सदेव सोम्येदमग्र आसीदि ' त्यादाविदंशब्द गृहीतस्य कार्यस्य कारणे 2 सामा- नाधिकरण्यादित्यादिकमुक्तम् । असत्वोक्तौ अग्रकालासत्वोक्तौ अद्वि- तीयादिपदैः सदन्यसामान्यस्य निषेधोक्तौ च । सदात्मना सदभिन्न- त्वेन । ब्रह्माभिन्नस्येति । ब्रह्माभिन्नत्वनेति शेषः । उक्तश्रुत्येत्यादिः । तथाचोक्तश्रुत्या सदन्यत्वेन श्रुत्यन्तरेणानुमानादिना च सदभिन्नत्वेनापि मिथ्यात्वसिद्धिः । सर्वस्य दृश्यस्य केनचिद्रूपेणोक्तश्रुत्या मिथ्यात्वसिद्ध्यै- "वास्मदिष्टसिद्धिरिति भावः । नन्वप्रकालासत्वस्याग्र काली नानिषेधप्रति- योगित्वस्य वा सदन्यसामान्ये बोधेऽपि न मिथ्यात्वसिद्धिः ;

व्याकृत-

1 सदन्य इति-ग. 2 कारणेन-ग. 3 सिद्धी-ग.