पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अद्वैतश्रुतेर्बाधोद्धारः 247 च सर्वत्र स्वसाधारणमुपपादकतावच्छेदकमेकमेवेति तदवच्छिन- तया स्वस्यापि भानमिति वेषम्यम् । तथाहि दृश्यत्वावच्छिन्न- मिथ्यात्वं विना हक्सम्बन्धानुपपत्तिग्रहात्तदवच्छिन्नमिथ्यात्व- मर्थापत्तेविषय इति स्वमिथ्यात्वमपि स्वाविषयः । एवमेव ज्ञान- निवर्त्यत्वानुपपत्तेरपि स्वविषयत्वम् ; तत्रापि दृश्यत्वादेरेकस्यै- बावच्छेदकत्वात् । एवं च ब्रह्मणि सर्वाभेदबोधिकायाः श्रुते- र्भेदमात्रनिषेधान्यथानुपपत्तेश्च स्वाभेदविषयत्वमविरुद्धम् । न हि सर्वभेदे स्वभेदापत्तिरिव सर्वाभेदे स्वाभेदो दोषाय | तस्माद - द्वैतश्रुतिर्बाध्यबाधकयोरैक्यबोधनेन निराबाधा सर्वाद्वैतं प्रति- पादयति । ननु – शब्दबुद्धिकर्मणां विरम्यव्यापाराभावात्कथ- मादावल्पविषया बुद्धिः पश्चाद्धहुविषयापि भवतीत्युच्यत इति - ब्रेन; श्रुतितो द्रागेव जातायाः सर्वविषयाया अद्वैतबुद्धेः प्रामाण्यं व्यवस्थापयन्तीनामस्मदुद्धीनामेव क्रमेण जायमानत्वात् । - मेदानां दुर्जेयत्वात्कचित्कस्यचिद्भेदज्ञानासम्भवे इत्यपि बोध्यम् । तथाहीति | प्रपञ्चस्येति शेषः । सर्वभेदे उक्तार्थापत्तिविषये सति । स्वाभेदः स्वाभेदापत्तिः । कथमित्यादि । चरमज्ञाने आदौ लब्ध- पदा पश्चात्सर्वाद्वैतविषयेति कथामत्यर्थः । द्रागेव युगपदेव । प्रामाण्यमित्यादि । यत्र प्रत्यक्षादिना भेदो न गृहीतः, तत्र श्रुतेर बाघितविषयकत्वम् । प्रत्यक्षादिविषये तु सर्वत्र श्रुतेः प्रवृत्तिरिति प्रत्यक्षादिकं नाबाधित किञ्चिद्विपयकम् । अतः प्रत्यक्षादितः श्रुतिः प्रबला । एवं बाध्यत्वाभिमतश्रौतज्ञानस्य द्वैतमात्रोच्छेदकत्वेन बाधक- त्वाभिमतप्रत्यक्षादिस्वरूपोच्छेदकत्वादपि सा प्रबला | बाध्यकालऽनु- च्छिन्नस्वरूपं हि बाधकं स्यात् । अतएव सर्वकथंतामूलोच्छेदकत्वे- नापि सा तथा । तदुक्तं खण्डने-