पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

244 संव्याख्यायामद्वैतसिद्धो [ प्रथमः नाप्यर्थापत्तिः सर्वभेदविषया; स्वाविषयत्वात् । ययोर्हि भेदं विना यत्रानुपपत्तिर्गृहीता, तयोस्तत्र भेदग्रहेऽप्यनुपपत्तावनुप. परयन्तराग्रहणात् । सर्वत्र तहणे तु धाराविश्रान्तौ चरमधी- रुदाहरणम् । तदुक्तम्- आद्यधीवेद्यभेदर्दायाप्यन्यथानुपपन्नता । स्वज्ञानापेक्षणादन्ते बाधते नाद्वयश्रुतिम् ॥ इति ॥ ननु – यावदुपपादकं तत्सर्वमर्थापत्तेर्विषयः । न तु तत्राह – नाप्यर्थेति । स्वविषयत्वं विवृणोति । ययोरित्यादि । ययोरद्वैतज्ञानाद्युक्तप्रत्यक्षयोर्भेदं विना यत्रोक्तप्रत्यक्षस्य घटपटभेदविषय- कस्वेऽनुपपत्तिर्गृहीता, तत्रोक्तप्रत्यक्षतादृशविषयकत्वे निमित्ते तदुपपत्तय इति यावत् । तयोः अद्वैतज्ञानायुक्तप्रत्यक्षयोः । भेदग्रहेऽपि अनुप- पत्तावर्थापत्तिप्रमायामनुपपत्त्यन्तरस्याद्वैतज्ञानादितो भेदं विना किंचि दनुपपन्नमित्यस्याग्रहणात् । तथाचोक्तार्थापत्तावद्वैतज्ञानादिभेदाग्रहा- नार्थापत्तिः सर्वभेदविषयेति भावः । सर्वत्रोक्तार्थापत्यादौ । धारेति । सुषुप्तादिलोपापत्त्येत्यादिः । चरमधीः चरमार्थापत्तिः । अद्वैतज्ञानादि- भेदं बिना यस्याः किंचिदनुपपन्नमिति गृहीतं सार्थापत्तिरिति यावत् । आद्येत्यादि । आद्यर्घटपटभेदधीः तद्वेद्यभेदीया तस्या घियस्ता- दृशभेदविषयकत्वमद्वैत ज्ञानादेस्तस्यां भेदं विनानुपपन्नमित्याकारानुप- पन्नता अनुपपत्तिर्धारिद्वयश्रुतिं न बाघते । स्वज्ञानापेक्षणात् स्वस्मिन् ताह- शानुपपत्तिज्ञाने अद्वैतज्ञानादिभेदज्ञानमपेक्ष्यैव तस्यास्त द्वाषकत्वसम्भ- बात्, स्वस्मिनुक्तभेदज्ञानाभावे तत्रैव श्रुतेरवकाशेन सर्वाद्वैतपर्यव- सानात् । अथ तस्यामपि तादृशभेदं विना स्वविषयभेदविशेषविषयकत्व- मनुपपन्नमिति ज्ञानात्तादृशभेदग्रहः; तथाप्यन्ते धाराविश्रान्तौ तां न 1 न गृहीतं - ग.