पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अद्वैतश्रुतेर्बाधोद्धारः 241 न च - सिद्धान्ते घटतद्धीभेदग्राहिणा स्वप्रकाशेन साक्षिणा स्वस्मिन्नितरभेदस्यापि ग्रहणानानवस्था, अन्यथा स्वस्य घटा- दिभ्योऽमेदसंशयः स्यादिति – वाच्यम्; साक्षिणः स्वप्रकाश- त्वेऽपि स्वनिष्ठेतरप्रतियोगिक भेदग्रहे इतरप्रतियोग्युपस्थितिसापे- क्षत्वात् । अन्यथा स्वस्यान्तःकरणाद्यभेदभ्रमो न स्यात् । स्वप्रकाशेन भेदाग्रहेऽपि मानान्तरण भेदग्रहान्न घटाद्यभेदसंशय इति न किञ्चिदेतत् । स्यादेतत् – 'घटपटौ भिन्ना' विति प्रत्यक्षं - - - विजीयते बाध्यते । इतरप्रतियोगिक भेदेति । स्वविषयाज्ज्ञानान्तराच भेदेत्यर्थः । इतरप्रतियोगी - इतरात्मक प्रतियोगी | सप्रतियोगिकत्वेन भेदस्फुरणस्यैवाभेदधीविरोषित्वात्तदेव प्रकृते वाच्यम्, तच्च न सम्भवति, ज्ञानान्तररूपप्रतियोग्युपस्थित्यभावकालीनस्य साक्षिनिष्ठभेदस्यावृतत्वस्वी- कारेण तादृशोपस्थितिसापेक्षत्वात् । अभावमात्रस्यानुपलब्धत्वे तु न भेदे केवलसाक्षिवेद्यत्वशङ्कापीत्यनुपलब्धर वाकारक'वृत्त्यवच्छिन्न साक्षिवेद्य एव स इति भावः । अन्यथा - साक्षिण इतरनैरपेक्ष्येण स्वनिष्ठभेदग्राहकत्वे | अन्तःकरणाद्यभेदभ्रमः - अन्तःकरणादेर्भेदाविषयकोऽहमिति भ्रमो न स्यात् । इतरसापेक्षतया भेदग्राहकत्वे तु विपरीतसंस्काररूपदोषाभावस्या- न्तःकरणभेदस्फुरणापेक्षणीयत्वात्तदभावान्न तादृशस्फुरणम् । न च मम मन इति भेदस्फुरणं सर्वदास्त्येवेति वाच्यम्; तस्य तादात्म्यरूप सम्बन्ध- विषयकत्वेऽपि भेदाविषयकत्वात्, शरीरत्वादिनेव मनस्त्वेन तादात्म्या- ध्यासाभावात्, मम शरीरमितिवन्मम मन इत्यस्य सम्भवेऽपि मम मनुष्य इतिवन्ममाहमित्यस्याभावात्तदापादनसम्भवाच्च । एतेनेदानींतनस्य देहा- त्मनोरिव मनआत्मनोर्भेदज्ञानस्य सत्वेऽपि विपरीतभावनारूपदोषात्तयो- रमेदभ्रमः सम्भवतीति तदभावापादनं न युक्तमिति परास्तम् ॥ 1 ADVAITA. VoL. II - स्वाकार-ग. 16