पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ अथ अद्वैत श्रुतेर्बाघोद्धारः नन्वापांतप्रतिपन्न एव न तावच्छ्रुत्यर्थः; कश्छन्दसां योग- मावेद धीर' इत्यादिश्रुत्या 'बिभेत्यल्पश्रुताद्वेद' इति स्मृत्या च वेदार्थस्यातिगहनतोक्तेः, मीमांसावैयर्थ्यप्रसङ्गाच, किंतु मानान्तरेण पूर्वोत्तरेण चाविरुद्ध एवार्थ:; अविरोधग्रहणार्थ च मीमांसासाफल्यम्, अतएव 'आज्यैः स्तुवते' 'आकाशादेव शास्त्रार्थः, तन्यते व्यज्यतेऽनयेति तनूरात्मरूपसुखव्यञ्जिकेति यावत् । व्यावहारिकोऽप्यभावोऽद्वैत स्यामिथ्यात्वं घटयत्येव, स्वान्यूनसत्ताका- भावस्य तथात्वेनोक्तत्वात् । बाघस्तु तस्याखण्डाधिष्ठानप्रमयैवेति नानु - पपत्तिरिति भावः । इत्यादीत्यादिपदान्नेह नानास्तीत्यादिश्रुतयोपि परम- तात्पर्येणाखण्डार्थमवान्तरतात्पर्येण द्वैतमिथ्यात्वं बोधयन्तीत्यर्थः ॥ तर्कैः सारस्वतै रनैश्चन्द्रिका चन्द्रभूषणैः । दुरन्तध्वान्तभङ्गाय मिथ्यात्वश्रुतिसङ्गतिः ॥ इति मिथ्यात्वश्रुत्युपपत्तिः 230 [प्रथमः अथ अद्वैतभुतेर्बाघोद्धारः कश्छन्दसामित्यादि । छन्दसां वेदवाक्यानाम्, योग तात्पर्यम्, धीरोऽपि को वेदत्यर्थः । छन्दसां गायत्र्यादीनां योगं स्तुत - शस्त्रात्मना विनियोग को वेदेति माधवीयभाष्यव्याख्यानस्यापि वेद- तात्पर्यदुर्ज्ञेयत्वे तात्पर्यम् । अल्पश्रुतात् अल्पविद्या कात्पुरुषात् । आज्यैरित्यादि । आज्यैरित्यादौ घृतादित्यागेन सामपरत्वं पूर्व - मीमांसायां चित्राधिकरणे स्थापितम् । आकाशादित्यादौ गगनादि- 1 द्वैतस्या-क. ग, "