पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

228 सन्याख्यायामद्वैतसिद्धौ . [ प्रथमः भावस्य द्वितीयस्येव विशेषणत्वेनोपलक्षणत्वेन वा पुनरुपादानं न युक्तमिति वाच्यम् । अभावबुद्धौ निषिद्धस्यापि प्रति- योगिनः 'सा शुक्ति' रित्यत्र प्रतिषिद्धस्यापि पूर्वप्रतीतरजत- स्योपलक्षणतयोपादानदर्शनात्, असङ्कीर्णज्ञानप्रयोजकत्वस्य - उपादानम् – निषेधकप्रमाणं न विषयीकरणम् । प्रतियोगिन इत्युप- लक्षणतयोपादानदर्शनादित्यत्रान्वेति । उपलक्षणतया – अभावविशे- ष्यानन्विततया । ज्ञानान्तरोपात्तं स्वाविषय 'काधिष्टानबुद्धयुपकारकं सुसदृशं दृष्टान्तमाह – सेत्यादि । प्रसिद्धस्यापि पूर्वप्रतीतरजतस्य सा शुक्तिरित्यत्रोपलक्षणतयेत्यन्वयः । यतः पूर्वप्रतीतमतः प्रसिद्धं तत्पदबोध्यत्वरूपयोग्यतारूपं प्राप्तस्य रजतस्य स्वोपलक्षितशुक्तिस्वरूप- मिदंत्वेन लक्षणयोपस्थाप्य सा शुक्तिरिति वाक्यजन्यबुद्धयुपकारकत्वं दृष्टमित्यर्थः । ननु – प्रतियोग्युपादानं विनाभावविशेषस्य रजतोपादानं विना धर्मिविशेषस्य चालाभात्तयुक्तम्; निषेधबुद्धिं तु विघटयत्प्रति- योग्युपादानमेवायुक्तं निषेधकप्रमाणस्येत्यत आह – असङ्कीर्णेति । व्यावृत्ताकारकेत्यर्थः । प्रकृतेऽपि द्वितीयाभावत्वेनोपादानं निषेध बुद्धे- विघटकमित्युक्तम् । अतस्तदुपकारकत्वेन तदुपादानमपि न दोषः । यत्तु — अभावबुद्धावभावांशे घटादिः प्रतियोगी नोपलक्षणम्, किंतु घटादिप्रतियोगिकत्वं प्रकार इति तत्तुच्छम् घटत्वाद्यवच्छिन्नप्रति- योगिताकत्वसम्बन्धेन घटादेरभावांशे प्रकारत्वस्यानुभाविकत्वात् । घटो नास्तीत्यादिशब्द जन्यबुद्धावन्वयितावच्छेद का वच्छिन्नप्रतियोगिताकत्व - सम्बन्धे भानावश्यकत्वात् लाघवेन तादृशबुद्धेरेव प्रतिबन्धकत्वात्, त्वदुक्तविषयकत्वे तस्या घटवत्तादिबुद्धयविरोधित्वापत्तेश्च ॥ - - 'स्वविषय-क. ' न निषेध-क.ग. 3 संबन्धभाना-ख. मातावश्य-क. ·