पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्वश्रुत्युपपत्तिः 221 - तात्पर्यस्य तत्रापि सत्त्वात्, तदारैव स्वरूपचैतन्ये महातात्पर्यात् । अतएव श्रुतिबोध्यस्य विशेषणस्योपलक्षणस्य वा द्वितीयाभावस्य सत्वे जैतहानिः, असत्वे चादण्डे दण्डीति वाक्यवत् काकहीने काकवंदिति वाक्यवच्चाद्वैतवाक्यस्यातत्वावेदकत्वापत्तिरिति - निरस्तम् ; आद्ये द्वितयाभावसत्वेन द्वितीयाभावासिद्धूयापादन- स्यानुचितत्वात्, अभावस्याधिकरणातिरेकानभ्युपगमाच्च। द्वितीये तु सृष्ट्यादिवाक्यवदुपलक्ष्यस्वरूपसत्यत्वमादाय तत्वावेदकत्वात् मुख्यतात्पर्यविषयस्यासत्यता यामेवा तत्त्वावेदकत्वाभ्युपगमात् । अतएव महातात्पर्याभिप्रायेण चैतन्यमात्रे तात्पर्यमित्याद्यपक्षेऽपि न दोषः; अवान्तरतात्पर्येण मिथ्यात्वसिद्धेरपि स्वीकारेणेष्टा- पत्तेरप्यसम्भवात् । ननु – द्वितीयाभावे महातात्पर्याभावः किं वेंन शाब्दत्वानङ्गीकारेऽपि क्षतिविरहाच्च, धूमोऽस्तीत्यादिवाक्यस्य वन्यनुमिताविवाद्वितीयत्वादि' वाक्यस्योक्तार्थापत्त्यादौ तात्पर्यसम्भवाच्च, तदिदमुक्तम्---तद्द्वारैवेति । अद्वितीयत्वेन ब्रह्मधी रूपमिथ्यात्वसिद्धि- तात्पर्य द्वारैवेत्यर्थः । सत्वे तात्विकत्वे । द्वितीयाभावासिद्धीति । द्वितीयाभावरूपा द्वैत ब्रह्मानीत्यर्थः । मुख्यत इत्यादि । अमुख्य- तात्पर्यविषयेष्वतत्वावेदकत्वेऽपि मुख्यतात्पर्यविषये तत्वावेदकत्वमित्यर्थः ॥ यत्तु अवान्तरतात्पर्यं तत्रैवाङ्गीक्रियते यत्र तद्विषयघटितो महावाक्यार्थः; द्वितीयाभावादिम्तु नाखण्डमहावाक्यार्थघटक इति, तत्र न तदिति - तन्न; भूतार्थवादानां स्तुतिद्वारभूतदेवताविग्रहादौ धूमोऽस्तीत्यादेर्वन्ह्यनुमित्यादिद्वारभूतधूमास्तित्वादाविव महातात्पर्यवि- षयाघट केऽप्यवान्तरतात्पर्यसम्भवात् । न च--- द्वितीयाभावद्वारकमेव स्वरूपज्ञानमनर्थनिवर्तकमिति न युक्तम् ; न हि द्वारविशेषाजन्यः 1 तीयादि क. 2 टितम - ग.