पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] १ प्रतिकूलतर्कनिराकरणम् वैषम्यनैर्घृण्यप्रयोजनादिशङ्कापरिहारादिकं त्यञ्चाभवत् तदात्मानं स्वयमकुरुतं ' त्यादि श्रुतिलिङ्गात् । अत एव 'तत्तेज पेक्षत, ता आप ऐक्षन्ते' ति ईशावेशादचेतनस्येक्षितृत्वम् । व्यवहारदशामाश्रित्य वैषम्यादिशङ्कातत्परिहाराविति समाधानं सूत्रा- रूढतया भाष्यादावुक्तमित्याशयेनाह वैषम्यनैर्घृण्य प्रयोजनादीत्या- दि । उपासनावस्थायामिति । कर्मावस्थायामित्यपि बोध्यम् । उक्तं हि शारीरकसंक्षेपे- । - आरम्भसंहतिविकारविवर्तवादा नाश्रित्य वादिजनता खलु वावदीति । आरम्भसंहतिमते परिहृत्य वादौ द्वावत्र सङ्गृहपदं नमते मुनीन्द्रः || तत्रापि पूर्वमुपगम्य विकारवादं भोकादिसूत्रमवतार्य विरोधनुत्यै । प्रावर्तत व्यवहृतेः परिरक्षणाय कर्मादिगोचरविधावुपयोगहेतोः ॥ विवर्तवादस्य हि पूर्वभूमि- र्वेदान्तवादे परिणामवादः । " व्यवस्थितेऽस्मिन् परिणामवादे स्वयं समायाति विवर्तवादः ॥ अभंदिनः सावयवस्य सत्य- विचित्ररूपान्तरदर्शकत्वम् । बदन्ति धीराः परिणाममस्या 203 तूपासनावस्थायाम् 1 वसुंधराया इव सस्यसृष्टिम् ॥ 1 नपते-ग तपते क.