पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकूलतर्कनिराकरणंम् 195 कामनाया अयोगेन तस्योद्देश्यत्वायोगाञ्चेतिचेंनं; तत्र क्रत्वर्थस्य नि- यमापूर्वस्य परमापूर्वसाधकत्वेऽपि पुरुषार्थहिरण्यधारणादिनियमा- कामनाया इति । ब्रह्मज्ञानं भवत्विति कामनापूर्वकाले ज्ञान- विशेषणतया ब्रह्मणोऽपि ज्ञातव्यत्वेन परोक्षज्ञानस्य सिद्धत्वेन न तादृशकामना सम्भवतीति भावः । सोपाधिब्रह्मज्ञानस्यापा तब्रह्मज्ञानस्य च सिद्धत्वेन ब्रह्मान्या' विषयकनिश्चयो भवत्विति कामनाया एव वाच्य- त्वादापातज्ञानेनैव तदुत्पत्तिसंभवाञ्च नेयमनुपपत्तिरिति तु विभावनीयम् । ऋत्वर्थनियमापूर्वस्येति । क्रतुं तत्कारकं वोद्दिश्य विहितं यतज्जन्य- नियमादृष्टस्येत्यर्थः । परमापूर्वेति । उत्तराङ्गजन्यानेयमादृष्टाभिप्राये- णेदम् । अवघातादिजन्यनियमादृष्टस्योक्तरीत्याग्नेयाद्युत्पत्यपूर्वसाघनत्वात् । अथवोत्पत्यपूर्वस्यापि वैतुष्यादिद्वारावघातादिप्रयोज्यत्वात्परमापूर्वसाधन- त्वमेव तज्जन्यनियमादृष्टस्य परण वाच्यम् । अन्यथावघातादिफलान्य- देव तदीयनियमादृष्टफलमिति स्वकल्पितनियमभङ्गापत्तेः । तथास्वीका- रेऽपि पुरुषार्थनियमादृष्टस्य दृष्टफलसाघनत्वमवश्यं परेण वाच्यामित्य- भिप्रायकमिदम् । पुरुषार्थहिरण्यधारणादीति । तृतीयचतुर्थे स्थितम् । ' सुवर्ण हिरण्यं भार्यम्, सुवर्ण एव भवति, दुर्वणोस्य भ्रातृव्यो भवती ' इत्यनारभ्य श्रुते वाक्ये शोभनवर्णहिरण्यधारणं क्रत्वर्थमुत पुरुषार्थमिति संशये, फलकल्पने गौरवाचत्क्रत्वर्थम्, दुर्वर्ण इत्यादिकं तु न फलपरम् ; कामशब्दाभावात् । नच-रात्रिसत्रवत्तदभावेऽप्यार्थवादिकं फलमस्त्विति -- वाच्यम् ; ऋत्वङ्गत्वेन गतिसम्भवात् । तथाच वैदिककर्मस्वसामान्याद- ग्निहोत्रादिकर्मसु निवेशः । तत्र सूत्रम् 'अद्रव्यत्वात्तु शेषः स्यादि 'ति । द्रव्यदेवतासम्बन्धाश्रवणान्न स्वतत्रं कर्म किंतु क्रतुशेष इत्यर्थः । सिद्धान्तसूत्रं तु 'अप्रकरणे तु तद्धर्मस्ततो विशेषादि' ति । 1 ब्रह्मान्य-क. ग. , 13*