पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकूलतर्कनिराकरणम् स्वरूपेण तु निवृत्तिरेव, न; तस्याः स्वरूपाबाधेनाप्युपपत्तेरिति- चेन्न; सत्यस्य ब्रह्मणो निवृत्त्यदर्शनेन स्वरूपतो मिथ्यात्वा- भावे निवृत्ययोगान्मिथ्यात्वं निवृत्यनुकूलमेव | नच- तदर्थ प्रवृत्यनुपपत्तिः; अधिष्ठानसाक्षात्कारानन्तरं तथैव, ततः पूर्व तु कण्ठगतविस्मृतचामीकरप्राप्तय इव भ्रमबाधकज्ञानोत्पत्तये प्रवृत्त्युपपत्तेः । अत्यन्ताभावाधिकरणे च प्रतियोगिवत्तनिवृत्तिर- प्युपपादितैव | नच-त्रैकालिक निषेधप्रतियोगिनि तुच्छे निवृत्तिर्न दृष्टेति कथं तादृारी प्रपञ्चे सा स्यादिति – वाच्यम्; यथाकथं- चित्सजातीयेऽदर्शनस्याप्रयोजकत्वात् । अन्यथा अनुत्पन्ने निवृत्तिर्न दृष्टेति प्रागभावोपि न निवर्तेत । तस्मात्स्ख- भावविशेष एव तुच्छनित्यविलक्षणो निवृत्तिप्रयोजक इति वाच्यम् । सा च निवृत्तिरधिकरणस्वरूपेति पक्षे घटनाशार्थ सुगरपातादाविव मननादौ प्रवृत्तिरूहनीया। अतिरिक्तेति पक्षे वच्छिन्नं स्व समानाधिकरणात्यन्ताभावप्रतियोगित्वम् । निवृत्तिरेव नतु.. मिथ्यात्वम् । यद्यपि बन्वात्यन्ताभावे प्रतियोगिमत्कालाऽनवच्छिन्नत्व- विशिष्टे क्षेमसाधारणं साध्यत्वं सम्भवति; तथापि तादृशात्यन्ताभावस्यैव प्रकृते नाशरूपत्वात् । “क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परा- वरे" "तरति शोकमात्मवित्" इत्यादौ तरत्यादेर्नाशयत्याद्यर्थे निरूढत्वात्, ज्ञानेन तु तदज्ञानं येषां नाशितमित्यादिस्मृतेश्च, बन्धना- शार्थत्वं ज्ञानस्याह – सत्यस्येति । तथैवेति । तदा बन्धस्य मिथ्यात्वेन निश्चितत्वेना द्वेष्यत्वात्तन्निवृत्ताविच्छाविरहादिति शेषः । चामीकरप्राप्तये चामीकरासत्व भ्रमबाघकज्ञानोत्पत्तये । ऊहनीयेति । यद्यपि तत्तदधिकरणं सिद्धत्वेन ज्ञातम्, तथापि निवृत्तित्त्वेन रूपेण न तथा; निवृत्तित्वस्य 1 च्छिन्नस्व-ग. 187