पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

176 सव्याख्यायामद्वैतसिद्धां [ प्रथमं - न सादृश्यैकनियतः; अदृष्टादिनापि तत्सम्भवात् । तदु- क्तम्- 'सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः' इति । चिन्तादिकं च प्रणिधानसूत्रे व्याख्यातम् । तथाचान्यतः संस्कारोद्धोधे सति सादृश्यमनुपयोगि । तदुक्तं विवरणे - नव्यमते संस्कारचरमसहकारिण एवोद्बोधकरूपत्वेऽपि न क्षतिः । प्रणिधानसूत्र गौतमोक्तपञ्चाध्यायगित तृतीयाध्यायी यद्वितीयाह्निकस्थे “ प्रणिधान निबन्धाभ्यासलिङ्गलक्षणसादृश्य परिग्रहाश्रयाश्रितसम्बन्षा- नन्तर्यवियोगैक कार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थि- त्वक्रियारागधर्माधर्मनिमित्तेभ्य" इति सूत्रे । प्रणिधानं चिन्ताधारा यस्मिन्विषये तद्गतबिशेषाणां स्मारिका, निबन्धः एकवाक्योक्ताः प्रमाणप्रमेयादयो मिथ: स्मारकाः । अभ्यासः ज्ञानावृत्तिकृतः संस्कारः शीघ्रस्मारकः, लिङ्गं व्याप्यम्, लक्षणं व्यावर्तकम्, सादृश्यं सहशौ मिथ: स्मारकौ, एवं परिग्रहः स्वस्वामिनौ, आश्रया- श्रितौ पोषकपोप्यौ, संबन्धाः शिष्याचार्यादिभावापन्नाः, आनन्तर्य पूर्वापरकालानुष्ठेयाः स्नानतर्पणादयः, वियोगी वियुक्ताः, एककार्य एककार्या, अतिशयो न्यूनाधिकतामापन्ना: 2 विरोधि विरुद्धाः, प्राप्तिः प्राप्यप्रापकाः, व्यवधानं आच्छाद्याच्छादकाः असिकाषादयः सुखदुःखे अनुभूयमाने मूलस्य स्मारके, इच्छा, स्नेहो यत्र जातस्तस्य, एवं द्वेषः भयं यतस्तस्य मुहुः स्मारकम् एवं अर्थित्वं अप्राप्तेच्छा+ यत्र तस्य, क्रिया रथाधिशिल्पं, कर्तुः रागो लब्धविषये बुभुक्षा तस्य, धर्मो गतजन्मादेः, अधर्मो दुःखहेतु धीविषयस्य, निमित्तं कार्यकारणादिभावापन्ना मिथ: स्मारकाः, सर्वेषां स्मारकाणामुपलक्षण- दयः -ग. 1 यस्मिन् विशेषाणां - क. 2 न्यूनाधिकतापन्नाः - क. ख. ग. 4 अप्राप्त प्राप्तच्छिा - ख. ग. - 3 कोशा-