पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिकूलतर्कनिराकरणम् । कल्पितसामान्यविशेषाणां प्रवाहानादित्वात्, सत्यत्वानन्दत्वादी नामेव कल्पितव्यक्तिभेदेन सामान्यत्वात्, परिपूर्णानन्दत्वादीनां च विशेषत्वात् । अतएव सामान्याकारज्ञानं विना संस्कारानु- द्रोधात्कथमध्यास इति न वाच्यं, सदात्मना स्वरूपज्ञानस्यैव सामान्यज्ञानत्वात् । न ह्यध्यसनीयं सदात्मना न भाति । एता- वानेव विशेषः – यदधिष्ठानं स्वत एव सदात्मना भाति, अध्य- सनीयं तु तत्संबन्धात् । नन्वधिष्ठानतिरोधानं विना भ्रमासंभवः, प्रकाशरूपतिरोधाने तु तदध्यस्ताविद्यादेः प्रकाशानुपपत्तिरिति- मत्र बोध्यम् । प्रवाहेति । सर्वदा संसृष्टतया प्रतीत्यभावेन सादि- प्रातीतिकत्वादित्यादिः । तेषामानन्दत्वादिरूपेण सदा प्रतीतिस्वीकारेण पूर्णानन्दत्वादिरूपेणावृतत्वात्सदा प्रतीत्यभावोपपत्तेरसंसृष्टरूपेण मिथो- 'भिन्नरूपेणं चानादित्वे तु नान्योन्याश्रयत्वशङ्का । कशमिति । इदं रजतमित्याकारसंस्कारो यथा सादृश्यादिविशिष्टधर्मिज्ञानेनोद्बुद्धस्तादृश- अमे हेतुस्तथा सदाकाशमित्यादिसंस्कारोऽपि तदुहुद्धस्तादृशभ्रमे हेतु- रिति तं विना कथं स इति भावः । ननु – सद्रूपं नाविष्ठानम्, अध्यसनीया नुविद्धत्वेनाप्रतीयमानत्वात्तत्राह -- न हीति । विशेषाज्ञान- मध्यासकारणमिति सिद्धान्तवाक्ये विशेषाज्ञानपदं न विशेषाविषयका - ज्ञानपरम्; शुक्तिरूप्यादिभ्रमस्थले शुक्तित्वादिविषयका ज्ञान प्रसिद्धेः ' किंतु भ्रमविषयव्यावृत्ताकारकज्ञानस्याभावपरम् । तादृशस्य शुक्ति- त्वादिप्रकारकज्ञानस्य शुक्तिरूप्यादिभ्रमं प्रति मूलीभूताज्ञानोच्छेद- कत्वेन तदभावस्य तत्र प्रयोजकत्वेन क्लृप्तत्वात् । ब्रह्मनिर्विकल्पक- प्रमाया यद्यपि न विशेषणविषया व्यावृत्ताकारकत्वम्, तथाप्युपलक्षण- विषया द्वैताभावाद्याकारकत्वस्य प्रागुपपादितत्वान्नानुपपत्तिरित्याशये- . , 2 ज्ञानाप्रसिद्धेः-ग. परिच्छेदः] · 1 विशेषविषयका-ख. ग. 167