पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] प्रतिकर्मव्यवस्थोपपत्तिः 155 यदवच्छिन्न- निर्विभागचितिरेव केवला' इत्युक्तत्वात् । गोचरा च वृत्तिस्तदवच्छेदेनैवावरणापसरणा मानवच्छिन- चैतन्यावरणभङ्गप्रसङ्गः । अतएव वृत्तिविषयादवच्छिन्नचैतन्या- अविद्यावृत्तेरनादेः स्वीकारसम्भवात् । यदवच्छिन्नगोचरेति । यद- वच्छिन्ना यत्संश्लिष्टा यद्गोचरा यदाकारा चेत्यर्थः । प्रत्यक्षवृत्त्यभिप्राये- णेदम् । तदवच्छेदेनैवावरणापसरणादिति । तस्यैवोक्ताज्ञानसम्ब- न्धाभाववत्त्वा दित्यर्थः । आवरणमभानापादकं ग्राह्यम् तेन परोक्ष- वृत्तेः प्रमात्रगोचरायास्तदवच्छेदे नावरणनिवर्तकत्वेऽपि न क्षतिः । भङ्ग- प्रसङ्ग इति । अज्ञाननाशं प्रति ब्रह्माकारवृत्तेरेव हेतुत्वाद्धटादिवृत्त्या न तदापत्तिरिति भवः । तदेवमेकदेशपक्षान्तर्भावन चरमपक्षयोर्व्या- ख्यानम् ॥ , 2 अथवा चरमपक्षयोः पूर्वमुपपादनम्, ननु चैतन्यस्य निरवयव - त्वादित्यादिना एकदेशनाशपक्षस्ताभ्यां भिन्न एव स्वीकृत्योपपाद्यने । तत्र यदवच्छिन्नेत्यावेरयमर्थः - यत्कालावच्छिन्नघटादिविषयगोचरा वृत्तिस्तत्कालावच्छेदेन घटादिविषयेषु नाज्ञानविषयतावच्छेदकत्वरूप - मावरणम् ; किं त्वन्यकालावच्छेदेनेति । तथाचात्र पक्षे घटादावुक्ता- वच्छेदकत्वं वृत्त्यभावकाले, तत्पक्षयोस्तु घटादिकालमात्र इति भेदः । एवं चास्मिन्पक्षे ऽज्ञानविषयता नवच्छेद कस्व विशिष्टघटादिचिदेव घटादिभा- नम् असत्वापादकाज्ञानविषयता नवच्छेदकघटादिचिद्घटाद्यस्तित्वमिति लाघवभपि बोध्यत् || , यत्त शुक्तयादिज्ञानस्याज्ञानशक्तचभिभावकत्वं न युक्तम् । शक्तेरज्ञानान्यत्वे आवरणत्वायोगात्, अज्ञानरूपत्वे चाज्ञननाशं बिना तन्नाशायोगात् तस्या भ्रमोपादानत्वेऽज्ञानत्वापत्तेः तस्यैवाज्ञानलक्षण- त्वात् भ्रमानुपादानत्वे भ्रमोपादानमूलाज्ञाननिवृत्ति बिना रूप्यादि- " , भावत्वा-ग. " ननु - क. 1