पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः 153 न्धनं च प्रयोजनं प्रतिबनातीति किमु वक्तव्यम् । अत्र च प्रति- बन्धपदेन कार्यानुत्पत्तिप्रयोजकत्वं कारणाभावप्रतिबन्धकसाधा- रणमभिहितम् । एवमवस्था विशेषपक्षेऽपि प्रकाशाप्रकाशावुप - पादनीयौ । एवममूर्तस्याज्ञानस्य यद्याप दण्डादिना गवादीना- मिवापसरणं करादिना कटादीनामिव संवेष्टनं च न सम्भवति; तथापि कार्याक्षमत्वसाम्येनापसरणसंवेष्टनपक्षौ योजनीयौ । यथा ह्युत्तेजकाभावसहकृतस्य मणेः प्रतिबन्धकता यामुत्तेजकसत्वे प्रतिबन्धकार्याक्षमत्वम् ; तथा वृत्त्यभावसहकृतस्याज्ञानस्य प्रति- बन्धकतायां वृत्तौ सत्यां तत्कार्यानुदय इति द्रष्टव्यम् । ननु – चैतन्यस्य निरवयवत्वात्तस्यैकदेशेन प्रकाशो न युज्यते; अथा- काश इव तत्तदर्थावच्छिन्न त्वमेकदेशशब्दार्थः, तर्हि नागन्तुक- पदार्थावच्छिन्न चैतन्यमनाद्यज्ञानस्य विषय: ; निर्विषयस्यावरण- स्यायोगात्, प्रागनवच्छिन्नावरणमेवेदानीमवच्छिन्नावरणं जात- प्रतिबन्धकपदेन प्रतिबन्धकबोधकपदेन । एवमिति । एकया वृत्त्या एकस्या अवस्थांया नाशोऽन्यासां कार्ये च प्रतिबन्ध इत्यादिरीत्ये- त्यर्थः । एकदेशनाशपक्षीयं पक्षद्वयमुपपादयति - एवममूर्तेति । - प्रतिबन्धकार्येति । कार्यानुत्पादरूपकार्येत्यर्थः प्रतिबन्धकतायां घटो भातीत्यादिव्यवहाररूप कार्योत्पत्तिप्रयोजकाभावप्रतियोगितायाम् । सा च भातीत्यादिव्यवहार वृत्त्यभावविशिष्टाज्ञानस्य प्रतिबन्धकत्वाद्वा वक्ष्यमाणरीत्या वा बोध्या | ननूक्तंव्यवहारेऽज्ञानस्य प्रतिबन्धकत्वे वृत्त्यभावाविशिष्टाज्ञाना- भावविशिष्टचितो भानरूपत्वे च गौरवाद्वत्तिविशेषस्यैव भानत्वं युक्त - मिति - चेन्न; सुखादौ वृत्त्यनङ्गीकारलाघवादे रुक्तत्वात् । अत एव प्रवृ त्यादावुक्ताज्ञानाभावस्य हेतुत्वेऽपि न गौरवम्, तद्व्यक्तित्वेन तत्र तस्य -