पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः ज्ञानसाक्षा- - दवस्थावतोऽभिचैव, अज्ञानैक्यं तु सर्वावस्थानुस्यूतकाकार- मादाय | एवं चाज्ञानावस्थाया अज्ञानत्वेन न ज्ञानसाक्षाशिव- र्यत्वाद्यनुपपत्तिः । यत्त्ववस्थाविशेषाणामित्र रूप्यस्यैवोपादान- निवृत्ति विना निवृत्त्यापादनं तदयुक्तम् ; अज्ञान एव ज्ञानस्य साक्षाद्विरोधावधारणेनाज्ञानावस्थायास्तदभिनाया निवर्त्यत्वार्हत्वात्, न तु रूप्यादीनाम्; अनीदृक्तात् । अनेका- ज्ञानपक्षे तु शङ्कापि नोदेति । ननु – अस्मिन् पक्षे एकया वृत्त्या सर्वतदज्ञानस्य निवृत्तिः, उत एकतदज्ञानस्य; आद्ये पुनः भिन्नो वैकदेशनाशपक्षः । एकाकारं अवस्थावदज्ञानरूपैकाकारम् । यथा घटादिरूपावस्थास्वनुगतमप्यज्ञानं घटादिनाशे न नश्यति, तथा अज्ञानरूपना नावस्थास्वनुगतमज्ञानं तासां नाशेऽपि न नश्यति । इयांस्तु विशेषः - यदा घटाद्यवस्था सादिरज्ञानोच्छेदं विना नोच्छिद्यते च, अज्ञानावस्था त्वनादिरवस्थावदज्ञानोच्छेदं विनाप्युच्छिद्यते चेति । न चावस्थावदभेदस्थावस्थास्वङ्गीकारो व्यर्थः, अवस्था नामप्यज्ञानत्वादेव ज्ञाननाश्यत्वादिसम्भवादिति – वाच्यम्; अवस्थास्वज्ञानत्वरूपाखण्ड- धर्मानङ्गीकारादवस्थावदज्ञानतादात्म्यं विना ज्ञाननाश्यत्वाद्यसम्भवाद- ज्ञानाभिन्नावरकस्यैव ज्ञाननाश्यत्वादिस्वीकारात् । नच – कुब्यादि- रूपावरकस्यापि तथात्वाज्ज्ञाननाश्यत्वाद्यापत्तिरिति - - वाच्यम् ; वृत्ति- साक्षाद्विरोधितायोग्यत्वरूपस्य सविषयकत्वस्यावरकत्वस्य निवेशात् । नचैवमपि तादृशावरकस्यैव ज्ञान विरोधित्वमिति नियमसम्भवेनाज्ञाना- भेदोऽवस्थासु व्यर्थ इति वाच्यम्; तादृशावरकस्याज्ञानाभिन्नत्वनियम ' इत्यत्र तात्पर्यात् नीहारेण प्रावृता जल्प्या ' । 'अजामेकाम्' इत्यादि- श्रुतावज्ञातोऽयमिति घटायनुगतव्यवहारे चैकाज्ञानस्य प्रतीतेश्चेति नोच्छिद्यतेऽज्ञानाद्यवस्था--ग. 2 स्यैकज्ञान-क. 3 प्रावृत्या जल्प्या- क. ग. 151