पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

148 संव्याख्यायामद्वैतसिद्धौ [प्रथमः मात्र क्रियते मुद्गरप्रहारणेव घटस्य, न त्वज्ञानं निवर्त्यत इति ते मतं न युक्तम् ; यतो ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्ति- बलाज्ज्ञानस्याज्ञाननिष्ठीत्तद्वौरवान्यविरोधित्वेनाज्ञानमनिवर्त्य रू- प्यादिनिवर्तकत्वायोगात् शुक्तिज्ञानेनाज्ञानानिवृत्तावभिव्यक्त- चैतन्यसम्बन्धाभावेन भ्रान्ताविव बाघेऽपि युक्तेरप्रकाशापत्ते- श्चेति – चेन यतो ज्ञानमज्ञाननिवर्तकमिति व्याप्तेरुच्छेदविषय- त्वात्, स्वकारणे सूक्ष्मरूपेणावस्थाने तदनङ्गीकारात्; शुक्ति- ज्ञानस्याचानवच्छिनचैतन्यावरणरूपमूलाज्ञानानिवर्तकत्वेऽप्यव- च्छिनचैतन्यावरणरूपतूलाज्ञाननिवर्तकत्वेनाभिव्यक्तचैतन्यसम्ब न्धाद्वाघदशायां रूप्यनिवृत्तिशुक्तिप्रकाशयोरप्युपपत्तेः । न चोपादेयभूतया वृत्योपादानभूताविद्याभिभवो न घटते; उपा- देयेनोपादानाभिभवादर्शनादिति – वाच्यम्; वृश्चिकादिना गोम- यादेरुपादानस्याप्यभिभवदर्शनात् । आरम्भवादानभ्युपगमाञ्च न गोमयावयवानामुपादानत्वशङ्का | ननु चक्षुरादिजन्यशुक्तथा- दिवृत्तेः सप्रकारिकाया निष्प्रकारकशुद्धचैतन्याविषयतया तदा वरणरूपमूलाज्ञानाभिभवाभावेऽध्यवच्छिन्नविषयया तयाऽवच्छिन्न- चैतन्यावरणरूपतूलाज्ञानाभिभवो युज्यत इति ते मतमयु- क्तम्; अवच्छिक अविद्याकल्पितेऽप्रसक्तप्रकाशे मूलाविद्याया - रूपेणाप्रकाशादावरणमावश्यकमिति भावः । उच्छेदविषयत्वादिति । ज्ञानमज्ञानान्यस्य नोच्छेदकमित्येवं रूपत्वात् । उच्छेदश्चावस्थिति- सामान्यविरहः पूर्वोक्तरीत्या बोध्यः । ननु - तूलाज्ञानानङ्गीकारपक्षे वृत्त्या मूलाज्ञानं कार्याक्षमीक्रियत इति शुक्तिरूप्यादेर्न बाधः, किंतु लयमात्र- मिति बाच्यम्, तच्च न सम्भवति; उपादेयेनोपादानल्यादर्शनादि- त्याशङ्कच निरस्यति – न चोपादेयेत्यादि । अनभ्युपगमादिति । -