पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मुपदेशसाहस्रधनुसारेण प्रमेयेष्वित्यादिवार्तिकोक्तरीत्या व्यक्तविषयाधिष्ठानचैतन्यं वा, नाद्यः; आध्यासिकसंबन्धस्या- तन्त्रतापातात् । न द्वितीयः; आवश्यकेन विषयसंश्लिष्टवृत्ति- प्रतिबिम्बितचैतन्येनैव तदज्ञाननिवृत्तिवत्तत्प्रकाशस्याप्युपपत्तौ किं विषयाधिष्ठानचैतन्याभिव्यक्तिकल्पनेनेति – चेन; प्रका- शकं तावदधिष्ठानचैतन्यम् । तच्चाध्यासन विषयैः सह इन्द्रियमनोयोगस्य चाक्षुषा दिहेतुत्वावश्यकत्वात् । अन्यावच्छेदेनेव विषयसंयुक्तभागावच्छेदेनापीन्द्रिये मनःसंयोगम्य विनिगमकाभावेन मनोमहत्वमते आवश्यकत्वाच्चाक्षुषादिवृत्तेर्विषयसंश्लेषो दैववशसंपन्न इति । उपदेशसाहस्रीति । प्रतिकर्मव्यवस्थोपपत्तिः 6 133 घटाकारधीस्था चिद्वा परागर्थ धीप्रतिबिम्बित चैतन्याभेदाभि-. घटैकाकारधीस्था चित् घटमेवावभासयेत् । घटस्य ज्ञातता ब्रह्मचैतन्येनावभास्यते || इति रीतीत्यर्थः । परागर्थेति । परागर्थप्रमेयषु या फलत्वेन संमता । संवित्सैवेह मेयोर्थो वेदान्तोक्तिप्रमाणतः || 1 इति वार्तिकम् । प्रकाशस्य भातीत्यादिव्यवहारम्य । सर्वगतजीवम्या नधिष्ठानत्वपक्षे आवरणाभावस्य स्वतः सिद्धत्वादावरणाभिभवं विनापि भासकत्वं युक्तं न तु तम्याधिष्ठानत्वपक्षे मनोऽवच्छिन्नचिद्रूपतापक्ष बा; प्रकाशस्य दीपादेशवृतस्याप्रकाशकत्वदर्शनादावृतचितः प्रकाश- कत्वासम्भवादित्याशयेनाह --- न प्रकाशकमित्यादि । प्रकाशकं प्रका- शत इति व्यवहारप्रयोजकम्। अधिष्ठानचैतन्यम् अधिष्ठान भिन्न- चैतन्यम् । तच्च अधिष्ठानं च | अध्यासेनेति । साक्षात्सम्बन्धान्वय्य- ध्यस्ततादात्म्येन सम्बद्धमित्यर्थः । तथाचाद्यपक्षे प्रकाशकस्य जीवस्य