पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः 127 रूपेणाकर्मिकाया अपि वृत्तेज्ञानत्वेन सकर्मकत्वं भविष्यतीत्य- दोषः। ननु – तर्ह्यतीतः प्रकाशत इति धीर्न स्यात्, न; इष्टापत्तेः, तत्रापि वृत्तिप्रतिबिम्बितचैतन्यसत्वेन प्रकाशत इत्यादिप्रयोग- सम्भवाच्च । ननु – यथा अज्ञानविरोधिवृत्तावनुभवत्वं नास्ति किन्त्वन्यत्र ; तथा द्वेषविरोधिवृत्तेरन्यत्रेच्छात्वमित्यपि स्या- दिति – चेन; बाधकसत्वासत्वाभ्यां विशेषात्, अत्रेव तत्र सक- र्मकाकर्मकविलक्षणक्रियाननुभवाच्च । यथाच वृत्त्यतिरिक्तभान- सिद्धिस्तथा स्वयंज्योति प्रस्तावे विस्तरेण वक्ष्यामः । , तन्न; अन्धकारे घटत्वाचप्रत्यक्षवतामिदानीं घटो मे प्रकाशते न प्रभेति व्यवहारादुक्तान्यतरस्य प्रकाशत्यर्थप्रकाशरूपत्वे प्रभायां तादात्म्येन तजोऽन्तरसत्वेन तदभावव्यवहारानुपपत्तेः । इष्टापत्तेरिति । आवरण- 'शून्यचित्तादात्म्यस्योक्तधीविषयत्वादिति शेषः । यत्र भाट्टमते प्राकव्यं, तार्किकादिमते च लौकिक प्रत्यक्षं तत्रैव मन्मते तद्धीस्वीकारादिति भावः । अभ्युपेत्याह -- तत्रापीति । अज्ञातत्वेन साक्षिभास्यतामात्रेण तादृशबुद्ध्यभावादांह --वृत्तिप्रतिबिम्बितेति । वक्ष्याम इति । 'तमेव भान्तमनुभाति सर्वम् अत्राऽयं पुरुषः स्वयंज्योतिः, स्वप्रका- शमहानन्दमात्मैवैतदि ' त्यादिश्रुत्यादिना आत्मा स्वप्रकाशज्ञानरूप इति बक्ष्यते ॥ , -- ननु – – तमेवेत्यादिश्रुतेः सूर्यादिप्रकाश ईशाधीन इत्यर्थः, सर्वशब्दस्य प्रकृतपरत्वात् सर्वेभ्यो दर्शपूर्णमासौ, इतिवत् । प्रकृतं च सूर्यादि, त्वन्मते नित्यातीन्द्रियस्य चिदभास्यत्वेन सर्वपदसङ्कोचावश्य- कत्वात् । प्रकृतपरेदंशब्दसम भिव्याहारादेतद्वाक्यार्थनिर्णायके ‘अपि च स्मर्यते' इति सूत्रे त्वद्भाष्येऽपि 'यदादित्यगतम्' इत्यादिस्मृतेरुदा -. हृतत्वात् । त्वन्मते ब्रह्मणो भानत्वेन भान्तमिति शतृप्रत्ययस्य तस्येति ·