पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ वाचित्वात्फलवाचकत्वं वैय्याकरणसम्मतम् ॥ अपि च केरोर्तयत्नमात्रवाचित्वे सकर्मकता न स्यात्, धात्वर्थता- बच्छेदकफलशालित्वं हि कर्मत्वम्, तदन्वयिस्वार्थकत्वं सकर्मकत्वमिति तार्किका: । स्ववाच्यव्यापारव्य धिकरणफलवाचित्वं सकर्मकत्वमिति शाब्दिकाः । क्रियाजन्यफलमात्रस्य कर्मतात्वे तदन्वयिस्वार्थकस्य सकर्मकत्वे च यत्यादेरपि सकर्मकतापत्तेः । अन्यथा गम्यादेरपि क्रियामात्रवाचितां किं न रोचयेः । अत एव पाकारम्भात्पूर्व पाकाय यत इति स्यान्न तु पाकं करोतीति; कालसम्बन्धोपधायककृतेः कृञर्थत्वात्तदानीं पाकनिष्ठकालसम्बन्धानुपधानात् । कृताकृतेत्यादौ तु यनत्वमात्रेणाख्यात करोतिवाच्यता नामिप्रेता किं त्वनुकूलयत्नत्वेन । तत्र हि फलानुकूलत्वेन करोतिवाच्यता न तु यत्नत्वेन; यत्नार्थक- पदसमानार्थत्वापत्तेः । रथो गच्छतीत्यादौ करोत्यर्थकाख्यातस्य मुख्यत्वे बाघकाभावाचेत्याशङ्कय 1 124 —— [प्रथमः कृताकृतविभागेन कर्तृरूपव्यवस्थया । यल एव कृतिः पूर्वापरस्मिन् सैव भावना || यत्नपूर्वकत्वस्य प्रतिसन्धानात्पदादौ कृतत्वव्यवहारात्तदप्रतिसन्धाने स ऽहेतुकत्वप्रतिसन्धानप्यङ्करादाव कृतत्वव्यवहारादाश्रयाथक तृजन्तकर्तृपद- स्य कृत्याश्रय एव प्रयोगाद्यल एव कृतिर्नानुकूलमात्रम् । सा च परस्मिन् स्वकार्ये पूर्वा कारणीभूतेति भावना भावयतीति व्युत्पत्तेः । तथा च तदर्थककृणा विवरणादाख्यातमपि तदर्थकमेव । अनुकूल- यत्नरूपे समुदिते प्रवृत्तमाख्यातं रथो गच्छतीत्या दावेकदेशेऽनुकूले प्रयुज्यते, सामवेदाध्येतृब्राह्मणप्रवृत्तश्रोत्रियपदमिव ब्राह्मणमात्रे, इत्या- दिकं मूलटीकाभ्यां प्रतिपादितम् ॥ 1 यतत - ख. ग.