पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः 2 प्रभापि न दृष्टान्तः ; तस्यास्तमो निवर्तकत्वरूपस्य प्रकाशकत्वस्या- काशेऽपि तुल्यत्वात् । नहि सा आकाशांदिसंसृष्टं तमो न निवर्तय- तीति, तदपि मौढ्यात्; उक्तमानबलेन वृत्त्यादौ ' जीवस्य प्रतिबिम्बि- तत्वेऽपि विषये तत्सत्वे मानाभावात् । न च सुखं साक्षात्करोमीति व्यवहार इव घटं साक्षात्करोमीति व्यवहारस्तत्र मानम्, सर्वदा तत्प्र- सङ्गवारणाय चक्षुरादिसन्निकर्ष एवास्तु घटादिप्रतिबिम्बितत्वहेतुः, अविद्यागतसत्वगुणान्वया द्धटादेरपि प्रतिबिम्बोपाधितायोग्य स्वच्छतास- म्भवः, जीवेशभेदमनस्त्वादाविव रूपादावपि प्रतिबिम्बसम्भव इति - वाच्यम् ; चक्षुरादोरव विनिगमकाभावात्तत्संयुक्त मनसोऽपि सम्प्रयोगो विजातीयत्वेन घटादिगते चित्प्रतिबिम्बे हेतुर्वाच्यः, तथाच घटादि- संप्रयुक्तमनस एव जीवप्रतिबिम्बत्वेन क्लृप्तस्य घटादिभासकतोपपत्तौ • घटादेर्जीवप्रतिबिम्बत्वे मानाभावः, रूपपरिमाणाद्यनन्त गुणादिष्वनन्त- - १ प्रतिबिम्बकल्पने गौरवं च । न च – यथा त्वन्मते द्रव्यरूपपरिमाणा- दिष्वेका मनोवृत्तिस्तथा तेष्वेकमेव मम प्रतिबिम्बमिति --वाच्यम्; अनेकेषु दर्पणेषु मुखस्येवानेकेषु द्रव्यरूपादिषु कल्पितसंसर्गरूपस्य प्रतिबिम्बस्याने कत्वावश्यकत्वात्, समवायस्येवाऽऽश्रयभेदेन कल्पित- सम्बन्धस्य भेदावश्यकत्वात् रूपं पश्यामीत्याद्यनुभवसिद्धंचाक्षुषादि- वृत्त्यावश्यकत्वेन तथैव रूपादिप्रतिबिम्बस्यान्यथासिद्धेश्च । विषयगत - - प्रतिबिम्बहेतुत्वेन त्वया वाच्यस्य विषयसंयुक्तेन्द्रियस्य मन्मते विषया बच्छेदेन मनःसंयुक्तत्वात् तस्यैव वृत्तिरूपत्वेन चक्षुरादिमनःपरिणाम- त्वेन च मया स्वीकाराञ्च । तथा च सम्प्रयोगरूपा वृत्तिर्न तु तत्कार्येति भावः । गोत्वादिदृष्टान्तस्तु युक्त एव; यथा गोत्वादिप्रत्यक्ष व्यक्ति- , 1 तस्यां तमो-ग. 2 मनोवृत्त्यादौ - ग. शामांधनन्स-ख. "परिणामा-ख. 119 3 प्रतिबिम्बवत्वेन - ख. 4 परि'