पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कानरूपणम् 111 i 2 प्रपञ्चे सत्वं शक्यनिर्वचनम्; बाधकसद्भावात् । अतएव - कठिनस्पर्शवत्यादिना पृथिवीत्वादीनां निर्वचनमस्त्येव, सत्वेऽ प्युद्भुतत्वादिना निर्वाच्यत्वोपपत्तिरिति – निरस्तम्; न हि निरुक्तिविरहमात्रेणानिर्वाच्यत्वं ब्रूमः, किंतु सत्वादिना निरुक्ति- विरहेण । स च प्रपञ्चे बाधकादस्त्येव । नच - ज्ञाने विषय- स्याध्यस्तत्वे तदज्ञानजन्यं तज्ज्ञाननिवर्त्य चाध्यास प्रति विषयत्वं तदनुविद्धतया प्रतीत्यभावश्च न सम्भवतीति - वाच्यम् ; चैतन्यमात्राज्ञानजन्यत्वात्, तज्ज्ञाननिवर्त्यत्वाच्च घटादिप्रपञ्चस्येत्युक्तत्वात् । सदिति प्रतीयमानाधिष्ठानचैत- न्यानुविद्धतया प्रतीयमानत्वमप्यस्त्येव । तस्मात्सत्यत्वे दग्ह- श्यसम्बन्धानुपपत्तिर्दृढैव ।। इत्यद्वैत सिद्धौ प्रपञ्चमिथ्यात्वानुकूलतर्कनिरूपणम् ॥ 3 , , प्रतीत्यभावश्चेति त्र्यं विषयस्य वाच्यं तच्चेति शेषः, तदज्ञानकार्या- ध्यासविषयत्वं तज्ज्ञाननिवर्त्याऽध्यासविषयत्वं तदनुविद्धतया प्रती- त्यभावश्चेति त्रयं न सम्भवतीत्यर्थः । ज्ञानस्य स्फुरणकाले विषया ध्याससत्वादाद्यद्वितीययोरसम्भवः । अधिष्ठानस्यावृतत्वेन तदनुविद्ध- तयाऽऽरोप्या प्रतीतिर्वाच्या सापि न सम्भवति; घटं जानामीति ज्ञानानुविद्धतयैव विषयप्रनितिरिति तृतीयासम्भव इति भावः । अस्त्ये- वेति। तथाच सद्रूप इव ज्ञानरूपेऽनुविद्धतया विषयमतीतरधिष्ठानं न तद्रूपं अपि तु शुद्धचिन्मात्रं, तदनुविद्धतया चाप्रतीतिः सम्भवत्येवेति भावः ॥ ननु प्रपञ्चमिथ्यात्वसिद्ध्यनुकूलतर्का मादृशैः प्रत्याख्यातुम शक्यत्वेऽपि कुशलैरन्यैः प्रत्याख्यास्यन्त इति चेत्, नूनं बलवतः । 2 पृथिव्यादीनां सत्वऽप्यनुद्धृत 3 अनिर्वाच्य . - 41