पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कनिरूपणम् 107 - - तघटना पटीयस्त्वेन सर्वानुपपत्तेभूषणत्वात् । न चातिप्रसङ्ग- निराकरणार्थं दृग्दृश्ययोः सम्बन्धनिर्वचनं प्रकृतम्, न तु विष - यत्वनिर्वचनम्, अतो विषयत्वग्वण्डन मनुक्तोपालम्भनमिति - वाच्यम्; विषयत्वखण्डनेन निरुच्यमानप्रकृतसम्वन्धस्यैव खण्ड- नात् । न च – विषयित्वानिरुक्तावपि विपयिणः सत्यत्ववत् विषयत्वानिरुक्तावपि विषयः सत्यः स्यादिति - वाच्यम्; विषयित्वानिरुक्तावपि विषयाध्यासनैव तदुपपच्या विषयिणः सत्यत्वं युक्तम्; विषयत्वानिरुक्तौ तु विषयस्य सत्यत्वं न युक्तम् ; विषयिणोऽनध्यस्तत्वेन विषयाध्यासमन्तरेणान्यस्योप- पादकस्याभावात् । यत्र तु विषयिण एवाध्यासः, तत्र विषयः सत्य एव, यथा ज्ञान विषयो ब्रह्म । न चोभयाध्यासः; शून्य- योगिकत्वयोः स्वस्मिन्नभावान्न स्व सम्बन्धत्वम् अन्यथा घटादावपि स्वस्यैव दृक्सम्बन्धत्वापत्तस्थापि घटादावनुभूयमानत्वा युक्तिवाधितत्वाच्च, सदसद्विलक्षणो मायिकः सम्बन्धी दृशः स्वीक्रियते न तु तंत्र तदन्तर- मननुभवादिति भावः । भूषणत्वादिति । उक्तं हि खण्डन अनवस्थादयो दोपाः सत्तां निघ्नन्ति वस्तुनः । अद्वैतिनां ते सुहृदः प्रपञ्चे तत्मसञ्जकाः || इति ।।

यत्तु -- ईश्वरशक्तेः सत्याया महिम्ना दृग्दृश्यतत्सम्बन्धादीनामनु- पपन्नत्वेऽपि सत्यत्वं मायायां शक्ति विहाय तम्यामेव भक्तरुचितत्वा- दिति, तत्तुच्छम्; अनुपपन्नस्यापीश्वरशक्तवादः सत्यनामकरण हि शुक्तिरूप्यादेरपि तत्कथं न कुर्याः । न चेति | भिन्नत्वेऽनवस्थाना- दिनेति शेषः । तदुपपन्येति । अधिष्ठानान्यमियोपपादकमिति भावः । अन्तरेणेति । विनिगमकाभावाद्विषयतत्सम्बन्धयोर्मिथ्यात्वमुप-. 2 स्वं प्रांत - क.. ग. 1 अज्ञान.