पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभ्याख्यायामद्वैतसिद्धौ [प्रथम: सम्बन्धस्योपपादकम्, प्रत्युत प्रतिकूलमेव । न चाध्यस्तत्व- रूपसम्बन्धस्य न तत्प्रतिकूलम्; तस्याद्याप्यसिद्धेरनाक्षेपक- त्वात् । प्रत्यक्षादिविरुद्धं चेदमाक्षेप्यम् । नाप्येकस्य दृश्यत्व- स्योपपत्तये प्रमितानेकस्य त्यागो युक्तः । आक्षेपकं च न दृगध्य- स्तत्वम् ; तस्यैव फलत आक्षेप्यत्वात् । नापि दृग्विषयत्वरूपो दृक्सम्बन्धः; तवासिद्धेः । न डगधीनसिद्धिकत्वम् ; दृग्विषय- त्वातिरिक्तस्य तस्यासिद्धेः । नान्त्यः; सत्वेऽप्युक्तरीत्या सम्ब- न्धान्तरेणैव दृश्यत्वस्योपपन्नतया अनुपपत्तेरेवाभावादिति- चेन; अनुकूलतर्कस्यैव प्रक्रान्तत्वेनार्थापत्तिर्वेत्यादिविकल्पानवकाशात् ; 100 सम्बन्धः सत्य एवेति नियमयोः संशयाहितं दृम्हश्ये सम्बद्धे न वेति संशयं द्वारीकृत्य विप्रकर्षहेतु कस्तयोः सत्यसम्बन्धाभावनिश्चयः तादृशसंशयो वा करणमुक्तान्यतरान्मथ्येत्यर्थापत्ताविति द्रष्टव्यम् ॥ 1 प्रतिकूलमिति । सम्बन्धि मिथ्यात्वे सम्बन्धस्य मिथ्यात्वनिय- मात्, मिथ्यात्वस्य च तुच्छत्वरूपत्वात्सम्बन्धस्वरूपस्य कालादिसम्बन्धिनः ' प्रतिकूलसम्बान्धत्वमिति पराभिमानः | परमते च शुक्तिरूप्ये मिथ्या- त्वसम्बन्धस्य शुक्तिरूप्याभावस्य च सत्यस्याङ्गीकारात्तत्र मिथ्यानुयोगि- कत्वस्य मिथ्याप्रतियोगिकत्वस्य च मिथ्यात्वासाधकत्ववद्दहात्मसम्बन्धे मिथ्यात्वेन परेणाप्यङ्गीकृते सत्यप्रतियागिकत्वस्य सत्यत्वासाधकत्ववच्च मिथ्यासम्बन्धिप्रतियोगिकत्वस्य सम्बन्धे मिथ्यात्वसाधकत्वं नेति तु बांध्यम् । मन्मतेऽपि तन्न तथा, ब्रह्मस्वरूपाभावे व्यभिचारादिति ध्येयम् । उक्तरीत्या - इच्छादाविव ज्ञानेऽपि विषयस्य सत्यः सम्बन्ध इति रीत्या । सम्बन्धान्तरेण – अध्यासान्यसम्बन्धेन । आक्षेप्यं - 1 प्रतिकूलं - ख. 2 सामान्यसम्बन्धन क.