पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] अनुकूलतर्कनिरूपणम् हारभाक् भवति नभ इव घटमणिमल्लिकाछुपाधि- भेदेन; तच्चाज्ञानसाधकत्वात् स्वरूपतो नाज्ञाननिवर्तकम् ' वृत्त्युपरक्तं त्वज्ञाननिवर्तकमिति न वृत्तेरनुपयोगः । तथाच 93 - , नानाविधजीवेश्वरत्वादिव्यवहारसम्भवाद्वृत्त्यन्यज्ञानं दुर्वारमिति भावः । वृत्त्युपरक्तमिति । निवर्तक वृत्त्युपरक्तत्वान्निवर्तकत्वेन व्यवद्दियते, न तु वृत्त्युपरक्तेन निवर्तकता, स्पष्टं चेदमावरणभङ्गश्च वृत्त्येति पूर्वग्रन्थे । न वृत्तेरनुपयोग इति । तथा चाज्ञाननिवृत्त्याद्यर्थमेव वृत्त्यङ्गीकारा- सुखादौ वृत्त्यनङ्गीकारेणासत्वापाद काज्ञानाभावविशिष्टचैतन्यमेव तत्र ज्ञानमिति घटादावपि तदेव ज्ञानम् | न च सुखादौ वृत्त्यभावे वृत्ति सूक्ष्मपरिणामरूपसंस्कारो न स्यादिति वाच्यम्; सुखाद्युपहितचैतन्यस्यैव नाशस्य संस्कारत्वसम्भवात्, संस्काररूपमनःपरिणाम विशेषस्यावश्यक- त्वेऽपि वृत्तिज्ञानानावश्यकत्वाच्च | पल्लवाज्ञानानङ्गीकारपक्षे तूताज्ञान. विषयतावच्छेदकत्वस्य वृत्त्यभावविशिष्टस्याभावविशिष्टं चैतन्यमेव ज्ञानम् प्रतियोग्यनधिकरणकालोऽत्यन्ताभाव इव घटादिरेव मूलाज्ञानविषयत्वे कादाचित्कोऽप्यवच्छेदकोऽङ्गीक्रियते, घटं न जानामीति प्रतीतेर्न सुखादिरिति वृत्तिविषयघटादौ विशेषणस्य सुखादौ विशेष्यस्याभावा- दुक्ताभाव इति न तत्पक्षेऽपि वृत्त्यपेक्षा सुखादिज्ञानार्थमिति भावः । न च घटो जानातीत्यादिप्रयोगापत्तिरिति-वाच्यम्; जीवेश्वराद्यन्य' तर- त्वस्य जानातीत्यादिप्रयोगोपाधित्वात् ॥ - वस्तुतस्तु यदवच्छिन्नविषयकत्वयद्विषयकत्वान्यतरवतोऽसत्वा- पादकाज्ञानस्थानवच्छेदकं यन्मनोऽविद्यान्यतरत्तदवच्छिन्न चैतन्यं तदीयं ज्ञानम् । ब्रह्मावच्छिन्नविषयकस्य ब्रह्मान्यविषयकस्य चाज्ञानस्याप्रसिद्ध- त्वात्तयोरेकैकमनिवेश्यान्यतरन्निवेशितम् । मनोमात्रे निवेशिते ईशो, 1 विषये -ग. 2 जीवेश्वरान्य.