पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कनिरूपणम् स्यैव सम्बन्धत्वात् । न च – नित्येश्वरेच्छाया विषयत्वसम्बन्धा- यदिच्छाविषयत्वव्यवहारः स्वप्रयोजकतादृश विषयत्वस्येच्छासम्बन्धत्वात् । एवं च जनकज्ञानं तद्विषयत्वं वा नेच्छाया विषयत्वम् समूहालम्बनादि- नातिप्रसङ्गात् ।। 9 1 अथ यद्विषयकत्वेन ज्ञानस्येच्छोत्पादकत्वं तद्विषयकज्ञानं तद्वि- षयत्वम् ; तींच्छायाः सर्वविषयकत्वं न स्यात्, सर्वविषयकत्वेनेच्छा- नुत्पादकत्वात्स्याच्च सुखादीच्छाया अपि दुःखाभावादिविषयकत्वम् । अथ – यद्विषयकज्ञानस्य स्वसमानाधिकरणय द्विषयकत्वव्यवहारविषये- च्छासमयाव्यवहितपूर्वसमये तादृशेच्छासमये वा नियमतः सत्वं तद्वि- षयकं ज्ञानमेव तादृशेच्छाविषयत्वम् सुवचश्च महाप्रलयाव्यवहित- पूर्वक्षण एवेश्वरेच्छाधिकरणसमयाव्यवहितः पूर्वः समय इति चेत्, तर्हि पाकादीच्छाया इष्टसाधनत्वविषयत्वं स्यात्, न स्याच कृतेः पाकादिविषयकत्वम्, तद्व्यवहितपूर्वक्षणे पाकादिज्ञानान्तरे मानाभा- वात्, कृत्यादिविषयत्वस्य तथैव निर्वाच्यत्वात् ; म्याच्चेच्छायाः कृत्यु- त्पादसमये निर्विषयत्वम् । अथ - इच्छानन्तरं तादृशं ज्ञानं कृति- स्तदनन्तरं तादृशं ज्ञानान्तरम् । अथवा युगपदात्मगुणद्वयमुत्पाद्यत इत्युपेत्य कृत्युत्पत्तिसमये नियमतस्तादृशं ज्ञानान्तरं कल्प्यमिति - चेत् ; तर्हि स्वतः सविषयकत्वमेवेच्छादावुचितम्, लाघवात्, बाघ- काभावात्, संस्कारे गत्यन्तराभावाच्चति, बौद्धाषिकारशिरोमण्युक्तम्, तन्मूलकमन्य प्रलपितं चानवकाशम् । मन्मते हि वृत्त्यनवच्छिन्नादि - चिद्रूपं यज्ज्ञानं तदीयतादात्म्यरूपम्य विषयत्वम्य वृत्त्युपरमेऽपि सत्वेन यद्विषयकज्ञानस्येत्यादिरी त्याऽपीच्छा संस्कारादिविषयतारूपत्वं सम्भवत्येव । 3 2 । तादृशेत्यादिज्ञ नमेवेत्यन्तः पाठः क पुस्तके नास्ति. तादृश ज्ञानंग. 4 मन्यत्र - ग. 6 नृत्यवच्छिन्न-ग. 3 83 2 विषयकत्वं - -ग. 6*