पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

66 सव्याख्यायामद्वैतसिद्धौ न्यस्य घटप्रकाशकत्वे आवश्यकेन वृत्तिप्रतिबिम्वितचैतन्येनैव घटप्रकाशकत्वोपपत्तौ तदधिष्ठानचिदभिव्यक्तिकल्पनायोग इति निरस्तम्; परोक्षविलक्षणस्फुटतरव्यवहारार्थ विषयाधिष्ठानचैत- न्याभिव्यक्तिकल्पनाया युक्तत्वात् । नच – शुद्धचैतन्यस्य चरम- साक्षात्कारात्पूर्व नाभिव्यक्तिः; अभिव्यक्तस्य च घटाद्यवच्छिन्न- चैतन्यस्य न तदधिष्ठानत्वम्, आत्माश्रयादिति वाच्यम्; न – चरमसाक्षात्कारात्पूर्वमपि शुद्धचैतन्यस्याविद्यावशादधिष्ठानभू- तस्य मूलाज्ञान निवृत्तिलक्षणाभिव्यक्तयभावेऽपि तदवस्थाविशेषा- दिनिवृत्तिलक्षणाभिव्यक्तघा विषयप्रकाशकत्वोपपत्तेः । न च- घटप्रकाशिकाया दृशो मिथ्यात्वे नाधिष्ठानत्वम्, सत्यत्व दोषा- बिम्चितम्यानधिष्ठानत्वादिति शेषः । घटाभिव्यक्तंति । घटावच्छेदे- नाभिव्यक्तत्यर्थः । आवश्यकेनेति । वृत्ते: स्वच्छतया तत्र चित्प्रति बिम्ब आवश्यकः । तस्य च स्वावच्छेद क वृत्तिविषयत्व सम्बन्धन ' प्रकाशकत्वमिति' भावः । नन्वभिव्यक्तिं विनापि परोक्षज्ञानस्य प्रका- शकत्वात्तत्र न तस्या उपयोगस्तत्राह -- परोक्षेति । म्फुटतरी भाती- त्यादिरूपः । युक्तत्वादिति । अन्यथा चित्प्रतिबिम्बस्योक्तसम्बन्धन परोक्षस्थलेऽपि सत्वादुक्तव्यवहारापत्तेरिति शेषः । तदधिष्ठानत्वं तदुपादानत्वम् । तथा च स्वापहितचैतन्यम्य घटादावधिष्ठानत्वे स्वम्य स्वस्मिन् प्रयोजकत्वादात्माश्रय इति भावः । शुद्धेति । घटाद्यनुपहि- तेत्यर्थः । अविद्यावशादधिष्ठानेति । ब्रह्मण उपादानत्वपक्षेऽविद्यास- हिततयोपादानेत्यर्थः । सहितत्वं चाविद्याया | अप्युपादानत्वादविद्योपहि तस्य ब्रह्मण एवोपादानत्वादविद्योपहितजीवचैतन्यम्योपादानत्वाद्वेति पक्षत्रयस्यापि सङ्ग्रहः । विशेषादीत्यादिना – मनोऽनवच्छेदप्रयुक्तस्य चिन्निष्ठभेदस्य ग्रहणम् । तथाच मूलाज्ञानसत्वेऽपि घटादिविषये तद- 1 सम्बन्धे - क. - प्रकाशत्वमिति - क. ख, 'मनोवच्छेद - ग. - [प्रथमः