पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 55 विषयत्वापत्तेः । न च ज्ञानकरणसन्निकर्षसमानाधिकरणो ज्ञानाव- च्छेदकत्वसाक्षाव्याप्यधर्मो विषयत्वम् इदं च नित्यपरोक्षसाधा- , दृक्दृश्यसम्बन्धभङ्गः तत्राव्याप्तिः' इति, तत्तुच्छम्; ज्ञानविषययोर्य इच्छादिप्रयोजकः सम्बन्धः स एव हि विषयतेत्युच्यते । स चेन्न भ्रमस्थले स्वीक्रियते, तर्हि कथं तत्रेच्छादिः । सम्बन्धान्तरस्य तंत्रेच्छादिप्रयोजकस्य स्वीकारे गौरबम् । शुक्तौ रूप्यादि विषयक ज्ञानवानहमिति व्यवहारानुपपत्तिश्च । अन्यथा भ्रम एव सविषयको न प्रमति' किं न स्यात् । अतएव अग्रिमानन्तर' लक्षणेऽपि शुक्तिरूप्यादावव्याप्तिरिति ध्येयम् । यदपि ‘लिङ्गाभासादिज्ञानजन्यानुमित्यादिविषये करणीभूतज्ञान विषयलिङ्गाभासा- देरसत्त्वेन तदीयव्यापकत्वादिसम्बन्धाभावेऽपि तदीयव्यापकताविषयक- • धीविषयत्वं सम्बन्धः । यद्यपि तादृशधीविषयत्वं न ह्याभासादिरूप - साध्यम्य सम्भवति. तम्यासत्त्वेन तादृशधीकरणसम्बन्धाभावात् ; तथापि शुक्तयादेरेव' रूप्यादिभ्रमविषयत्ववत्, सतः" पक्षादेव भ्रमानुमित्यादि- विषयत्वम् ' इति : तदपि तुच्छम् ; वह्निविषयकानुमितिमानहमित्यादि- सार्वजनीनप्रतीतिबाधान पक्षादिकमनुमिनामीत्यादिप्रतीत्यापत्तश्च तादृ- शानुमितेर्वह्वयविषयकत्वं वह्निविषयकानुमितिसामग्रचादिविलक्षणसाम ग्रयादिमत्त्वापत्तेः विषयता "घटितम्य करणसम्बन्धत्व नवस्थायापत्तश्चनि दिक || १ · न च ज्ञानेत्यादि । आत्मादिकमपि घटादिधीविषयः भ्यात् । ज्ञानं मदीयं घटं जानामीत्यादी घटज्ञानावच्छेदकत्वादत आद्यं दळम् । मनआदिवारणाय द्वितीयम् | ज्ञानावच्छेदकत्वम्य परम्परासम्बन्धन 3 ज्ञानविषयी प्रामतिः आभमानान्तर क. ग्व. ग. ग्वि-ग. विषयन्त्रं वस्तुतः "विपयिता क.ग.