पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः अथ दृश्यसम्बन्धभङ्गः - ननु – मिथ्यात्वानुमानमप्रयोजकं, सत्यत्वेऽपि दृश्यत्वो- पपत्तेरिति — चेन्न; दृक्दृश्यसम्बन्धानुपपत्तेः । नहि ज्ञानं ज्ञेया- सम्बद्धमेव प्रकाशकम्; अतिप्रसङ्गात् । नापि सम्बद्धम् ; आत्मस्वरूपस्य तद्गुणस्य वा ज्ञानस्य ज्ञेयेन संयोगसमवाययोर- तर्के: सारस्वतै रत्नेश्चन्द्रिका चन्द्रभूषणैः । असतोऽसाधकत्वोक्तौ बाधकं ध्वान्तभञ्जनम् || इत्यद्वैतसिव्याख्यायां गुरुचन्द्रिकायां असतः साधकावाभावे बाधकनिरूपणम्. अथ दृग्दृश्यसम्बन्धभङ्गः. संयोगसमवाययोरभावादिति । गुणादौ नात्मनस्संयोगस्स- म्भवतीत्यविवादम् । द्रव्येऽपि तदतततादशायां तदुत्पत्तिकाले च तद - सम्भवः । न चोत्पत्तिकाले तदवयवसंयोगजन्यम्तत्संयोगः, अतीताद्रौ च तदीयसूक्ष्मावस्थासंयोगद्वारकः सम्बन्धः एवं गुणादावपि द्रव्यद्वारेति - वाच्यम्; त्रुट्यादे' जन्यत्वेऽप्यवयवाभावस्योक्तत्वेन तत्र तद्गुणादौ च तदसम्भवात् ; गुणगुणिनोर्युगपदुत्पत्तः परैरम्बीकाराच्च । संयोगस्य सावयव एव दृष्टत्वेन व्यापकविरुद्धोपलब्धंश्च । अम्मन्मते त्रुटे :सं- योगानङ्गीकारात्, चतुरणुकत्वन परोक्तद्रव्यम्य सावयवत्वे मानाभा- वात् । भावे वा त्रुटेः संयोगं विना' क्रिययैव तत्सम्भवात् त्रुट्या दौ गुणादौ चैकजातीयत्वेनानुभूयमानस्य ज्ञानसम्बन्धस्य तावता प्यनुपपत्तेश्च आत्मगुणत्वं” तु ज्ञानम्य न सम्भवत्येव ; तत्र मनस एवोपादानत्वादन्यथा ज्ञानादौ मनसो निमित्तत्वमात्मन उपादानत्वमित्यत्र गौरवान्, कार्यत्वे- 1 द्रव्यादे. ' समवाय. संयोगादिना. 5 द्रव्यादी. 5 आत्मगुणत्वे. 7