पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32 सव्याख्यायामद्वैतसिद्धौ [प्रथमः मुदासीनं कुर्वता विशेष्यगतव्यावर्तकधर्मोपस्थापनेन व्यावृत्तिबु- द्विर्जन्यते तदुपलक्षणम्, यथा काकादि । यत्तु - विशेष्ये नोपरञ्ज- कम्, न वा धर्मान्तरोपस्थापकम्, अथ च व्यावर्तकं तदुपाधिः स्वविशेष्यान्वितायामुक्तोपरागसम्बन्धेन गोत्वस्यान्वयसम्भवाद्ध्यावृत्तिबुद्धौ तद्विशेषणं व्यवह्वियत इति भावः । तदुपलक्षणमिति । तथाच व्यावृत्ति- बुद्धावुपलक्षणत्वं तज्जनकधीविषयघर्मोपस्थापकधी विषयत्वमिति भावः । नोपरञ्जकमिति । व्यावृत्तिबुद्धिकाल इत्यादिः । व्यावर्तकतायाः प्रमाण- सिद्धत्वात्तृतीयमपि व्यावर्तकं वाच्यमित्याशयेनाह–व्यावर्तकमिति । व्यावर्तकत्वेन प्रमितमित्यर्थः । उपाधिरिति । तथाचोक्तोभयान्यत्वे सति व्यावृत्तिबुद्धेजनकधीविषयत्वमेव तम्यामुपाधित्वमिति भावः ॥ लक्ष्यस्वरूपमपि यद्यदमुष्य साक्षा- दर्थान्तराद्भवति भेदकमेतदाहुः । अस्य स्वलक्षणतयैव तु लक्षणं खं छिद्रं जलं द्रवमितीदृशमेव लोके ।। 'स्वानुरक्तमतिजन्मकारणं यत्पुनर्भवति लक्ष्यवस्तुनि | तद्विशेषणतयाऽस्य लक्षणं केसरादिकमिवाश्ववस्तुनः “स्वानुरक्तमतिजन्महेतुतां लक्ष्यवस्तुनि निरम्य लक्षणम् । अस्व रूपमपि तस्य यद्भवेत् काकवत्तदुपलक्षणं विदुः " | इति संक्षेपशारीरकोक्तौ तूपलक्षणमुपाधिश्च द्वयमपि स्वलक्षण विशे- षणभिन्नव्यावर्तकत्वेन सङ्गृहीतम् । तावता च न तयोरखान्तरविशेषोऽ- पलापार्हः । अत एव जगत्कारणत्वादिकमपीतरव्यावृत्त्युपलक्षित ब्रह्म- बुद्धावुपाधिरेव 'विशेषणं स्वलक्षणान्यव्यावर्तकत्वेनैकीकृत्य उपलक्षणत्वेन शास्त्रे व्यवहारः । अत एवाकाशपदप्रयोगे शब्दाश्रयत्वमुपलक्षणमिति 1 लक्षणं स्व.


2 अन स्व. 8 विशेष. 4 विशेषणस्वलक्षण-क. ख. ग.