पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A परिच्छेदः] असतः साधकत्वाभाषे बाधकनिरूपणम् 17 विशेषणबाघ पूर्वकत्वादुपलक्षणत्वकल्पनायाः, अन्यथा “दण्डी प्रैषानन्त्राह " लोहितोष्णीषा ऋत्विजः प्रचरन्तीत्यादावपि वेदे दण्डलौहित्यादेरुपलक्षणत्वात्तदभावेप्यनुष्ठानप्रसङ्गः, 'सर्वादीनि ' सर्वनामानि ' इत्यत्र सर्वशब्दस्य सर्वनामसंज्ञा न स्यात्, 'जन्माद्यस्य यत' इत्यत्र जन्मनो ब्रह्मलक्षणत्वं न स्यात्; विशेषणार्थत्वेन तद्भुणसंविज्ञानबहुव्रीहिसम्भवेगप उपलक्षणार्थत्वे- नातगुणसंविज्ञान बहुव्रीहिस्वीकारप्रसङ्गात् । एवं 'असिपाणयः प्रवेश्यन्ता' मित्यादिलौकिकप्रयोगेजपि । प्रतिबिम्बादिज्ञानानां जनकत्वे च विशेषणतया प्रतिबिम्बादीनामपि जनकत्वे बाधा- भावानोपलक्षणत्वपक्षो युज्यते । उदाहृतस्थलेषु सर्वत्र बाधक- ? 9 अनुष्ठानप्रसङ्ग इति । यद्यप्युक्तवाक्ये दण्डादिकमेव प्रैषानु- बचना धुद्देशेन विधीयते तदाश्रयस्य मैत्रावरुणादेः 'मैत्रावरुणः प्रेष्यति चानु चाह' इत्यादिना प्राप्तत्वात् तथाऽपि कादाचित्कसम्बन्धद्वारा साधनतया तद्विधि: स्यात् । न चानुवचनकाले इण्डस्या सम्बन्धेऽवलम्बन रूपदृष्टद्वारानुवचनसाधनत्वं तस्य न स्यादिति वाच्यम्; कादाचि- त्काबलम्बनाधीन श्रमापनयद्वारा तत्साधनत्यसम्भवात् । यत्तु - " ज्ञान- कार्येऽपि विषयहेतुत्वे बाधकमस्ति, अतीतधूमादेः स्वज्ञान कार्यानु- मित्यादौ हेतुत्वासम्भवात्; अतस्तत्राप्युपलक्षणत्वम् । दण्डीत्यादौ च ' तदस्यास्त्यस्मिन्' इति सूत्रेण विद्यमानसम्बन्धे मतुपो विधानाच्छौतं विशेषणत्वम् । लोहिते'त्यादौ च बहुत्रीहेर्म तुप्समानार्थत्वात्, सर्वा- दीत्यादौ च तद्गुणसंविज्ञानस्यातादृश बहुव्रीसपेक्षया मुख्यत्वान्नोपलक्ष - णत्वम्" इति, तन्न; यथा हि धूमज्ञानं विना जायमानवड्यनु- मितौ न तस्य व्यभिचार, स्वाव्यवहितोत्तरत्वस्य कार्यतावच्छेदकत्वात्,' 2 व्यवहतोत्तरवस्य. 5447 1 लाहिये. ADVAITA. VoL. II.