पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] असतः साधकत्वाभावे बाधकनिरूपणम् 13 सत्यपि दृढतरसंस्कारवशाभारोपनिवृत्तिः । अतएव ककारं पठति लिखति चेति सार्वलौकिको व्यहारः । वर्णारोपितदीर्घत्वहस्खत्वा- दीनां च नगो नाग इत्यादावर्थविशेषप्रत्यायकत्वम् । नच वर्णे- ष्वनारोपितध्वनिसाहित्यं तदभिव्यक्तिरूपं वा दैर्घ्य प्रत्यायकम्, एवं हस्वत्वादिकमपीति वाच्यम्; ध्वनीनामस्फुरणेऽपि दीर्घो वर्ण इत्यादिप्रत्ययात् । नन्वारोपितेन वर्णदैर्घ्यादिना कथं तात्विकार्थसिद्धिः; न ह्यारोपितेन धूमेन तास्विकवह्विसिद्धिरिति चेन; साधकतावच्छेदकरूपवत्त्वमेव साधकतायाः प्रयोजकम्, न त्वारोपितत्वमनारोपितत्वं वा; धूमाभासस्य त्वसाधकत्वं साधक- तावच्छेदकरूपव्याप्तयभावात्, नासत्वात्, अनाभासत्वग्रहश्च तत्र बहुलोर्ध्वतादिग्रहणवव्याप्तिग्रहणार्थमेवापेक्षितः । तदुक्तं वाच - स्पतिमिश्रैः– “यथा सत्यत्वाविशेषेऽपि चक्षुषा रूपमेव ज्ञाप्यते न रसः, तथैवासत्वाविशेषेऽपि वर्णदर्यादिना सत्यं ज्ञाप्यते, न तु धूमाभासादिना " इति । दृष्टं हि मायाकल्पितहस्त्यादे रज्जुसर्पा- देव भयादिहेतुत्वं सवितृसुषिरस्य च मरणसूचकत्वं शङ्काविषस्य चिदित्यादिः । ध्वनिसाहित्यं — दीर्घत्वाश्रयध्वनिसाहित्यम् । व्याप्तय- भावात् —व्याप्यत्वेनाग्रहात् । नासत्त्वात् – नारोपितत्वात् । धूमा- भासादिनेति । व्याप्यत्वेनागृहीतेत्यादिः । मायाहस्त्यादिकं सत्यं शक्तिविशेषेण सृज्यत इति परेणोक्तं, '(तन्नयुक्तम् ;) घटोत्कचादि- मायाकल्पितत्वेन हस्त्यादेर्भारतादावुक्तत्वात् । प्रतियोद्धा निराकृतस्या- वयवादिदर्शनस्य पश्चादभावेन मायारूपत्वस्य तत्र स्पष्टत्वादित्याशये- नाह-मायाकल्पितेति। शङ्काविषेति । भयावशेषप्रयोजक विषत्वभ्रमति 2 1 कुण्डलितः पाठः क्काचित्कः. 2 प्रतिबोध.