पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] असतः साधकत्वोपपतिः कत्वप्रसङ्ग इति वाच्यम्; वहौ ताम्बुद्धिविषयत्वस्यैश्वरादिसा- धारणस्य सवात् । विषे सञ्जीवकत्वप्रसङ्गस्य नभोनैल्यादितुल्य- त्वात् । वस्तुतस्तु–ज्ञाताज्ञातसाधारणं व्यावहारिकं सत्त्वमेव साधकत्वे तन्त्रम् ; तच्च ब्रह्मज्ञानेतराबाध्यत्वमेव; तथ न मिथ्यात्वघटितम् ; अत्यन्ताबाध्ये ब्रह्मज्ञानबाध्ये च तुल्यत्वात् । अत एव नेदं परमार्थसत्रव्याप्यम् । एवं च परमार्थसत्त्वस्य साधकतायामतन्त्रत्वेन तदभावेऽपि न साधकतानुपपत्तिः । एतेन व्यावहारिकत्वं ब्रह्मज्ञानबाध्यत्वं वा, व्यावहारिकविषयत्वे सति सवं वा, सवेन व्यवहारमात्रं वा । नाद्यः मिथ्यात्वसिद्धेः प्राक् तदसिद्ध्या अन्योन्याश्रयात् । न द्वितीयः; तस्यास्माकं मिथ्यात्वाविरोधि' त्वेनेष्टत्वात् । न तृतीयः; सच्चाभावे साधक- त्वानुपपत्तेरिति निरस्तम् ; उक्तनिरुक्तेरदुष्टत्वात् । न च हेत्वा- दीनां व्यावहारिकसच्चे साध्यस्यापि व्यावहारिकसच्चमेव स्यात्, अनुमितिविषयसाध्यस्य परामर्शविषयहेतुना समानसत्ताकत्व- काले बाधात् व्यवहारकालाबाध्यसत्त्वधर्न तत्रेति भावः । नैल्यादि- तुल्यत्वात् । नैल्यादेस्साधकताप्रसङ्गतुल्यत्वात् । उक्तखण्डनवाक्ये व्यावहारिकसत्त्वमेव कारणताघट कमभिमतम् । मिथ्याभूतेऽपि तंदजी- क्रियते, बुद्धिबलात् 'सत्यस्य सत्यम्' इत्यादि श्रुतिबलाचेत्याशयेन बुद्धया विशेषादित्युक्तम्, न तु तद्धी: कारणताघटिका, गौरवादित्य- भिप्रेत्याह – वस्तुतस्त्वित्यादि । व्यावहारिकसत्यमेवेत्येवकारेण पारमार्थिकसत्त्वमेव प्रयोजकमिति नियमो व्यवच्छिद्यते । तेन प्राती- तिकसत्त्वस्यापि प्रयोजकतया वक्ष्यमाणत्वेऽपि न क्षतिः । तत्त्वावेद- कत्वेत्यत्र तत्त्वं व्यवहारकालाबाध्यमबाध्यं वां, आधे आह-सवेनेति ।. 1 त्वविरोधि - 5