पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

500 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः इति । नापि स्वप्नवैधर्म्याक्तययोगः, तस्याः 'विमतं निस्तत्वम्, तर्कपीड्यत्वात्, मरुमरीचिकाजलवत्' इत्यनुमाने बाध्यत्वप्रमा- णागम्यत्वदोषजन्यत्वाद्युपाधि प्रदर्शनपरत्वात् । विज्ञानवादनिरा- करणपरेणापि नानेन सूत्रेण विरोधः | रूपादिरहित ब्रह्मजगदुपा- दानत्वप्रतिपादक समन्वयस्य नीलाद्याकारं विज्ञानं साधयता - नुमानेन विरोधसन्देहे- स्वमधीसाम्यतो बुद्धेर्बुद्धयाऽर्थस्य सहेक्षणात् । तद्भेदेनानिरूप्यत्वात् ज्ञानाकारोऽर्थ इष्यताम् ।। , , विमता धीः, न ज्ञानव्यतिरिक्तालम्बना, धीत्वात् स्वमधीवत्, साक्षित्वेनास्वीकृत्य साक्षिणोऽपि बाधस्वीकारे साक्ष्यन्तरं तत्साधकं वाच्यम्; तद्बाघकसाधकमपि साक्ष्यन्तरमित्यनवस्थानात्स्फुरणं नास्तीति बाघानुपलब्धेश्च साक्षिरूपं ब्रह्म तात्त्विकमंव वाच्यमिति भावः । उपाधिदर्शनेति । बाध्यत्वादेस्स्वप्नधर्मस्य ब्रह्मादावभावप्रदर्शनेन स्वप्नादौ निश्चितसाध्यव्यापकत्वं ब्रह्माण साधनाव्यापकत्वं च दर्शितमिति भावः । विमता नीलाद्यनुभवरूप। धीः, न ज्ञानव्यतिरिक्तालम्बना, न स्वान्यन्नविलक्षणविनानुभवत्वशून्यविषयकेति यावत् । बाह्यरूपसमानसत्ताकनीलादितादात्म्ययुक्तेति वाऽर्थः । आस्तिकमतेऽनु भवत्वशून्य एव नीलादिः, औपनिषद मतेऽपि नीलादितादात्म्यमनुभव निष्ठं नानुभवम्वरूपसमसत्ताकमिति न सिद्धसाधनमिति भावः। धीत्वात् अनुभवत्वात् । स्वप्नधीवदिति । अनुभवविषयकस्वप्नधीवदित्यर्थः । औपनिषदमते स्वप्नस्यावच्छिन्नानुभवस्य शुद्धानुभवविषयतारूपतादा- त्म्यान्न साध्यवैकल्यम् | न च तादृशानुभवविषयस्य जडस्यानुभवत्वशून्य- त्वात्तदवस्थमेव तदिति वाच्यम्; अनुभवविषयकत्वावच्छेदनानुभवावि- षयकत्वसत्त्वात् । औपनिषदं प्रत्यनुभवत्वाश्रयविषयकत्वमेव वा साध्यम् । 1 1 स्वस्वरूप.