पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः । ननु इत्यादिस्मृतिविरोधः; सद्विविक्तत्ववादिनो मम जगत्यसद्वै- लक्षण्याङ्गीकारेण तत्प्रतिपादकस्मृतिविरोधाभावात् 'नाभाव उपलब्धेः, वैधर्म्याच न स्वमादिवत्' इति सूत्रद्वयेन जगतः पारमार्थिकसत्त्वबोधनेन विरोधः, न चानेन शून्यवादि- निरासार्थेनासद्वैलक्षण्यमात्रप्रतिपादनान विरोध: ; अर्थक्रियाका- रित्वलक्षणस्यासद्वैलक्षण्यस्य शून्यवादिमतेऽपि सत्त्वेन तन्मत- निरासार्थत्वानुपपत्तेः, निषेधाप्रतियोगित्वरूपस्यासद्वैलक्षण्यस्य त्वयाप्यनङ्गीकारात्, असद्वैलक्षण्यमात्रस्य साधने सूत्रे स्वम- वैलक्षण्योक्तययोगाच्च, व्यावहारिकसत्यत्वमात्रेण स्वमवैलक्षण्यस्य ( त्वयाप्यङ्गीकारात्, असद्वैलक्षण्यमात्रस्य) तन्मतेऽपि सत्वाच्च । तदुक्तं बौद्धैः – 'द्वे सत्वे समुपाश्रित्य बुद्धानां धर्मदेशना' इति चेन्न; सूत्रार्थानवबोधात् । तथाहि —सपाह्मणो जगत्सर्ग वदतस्समन्वयस्य सर्वमसदित्यनुमानेन विरोधसन्देहे- 498 1 न सन्नासन्न सदसन्न चानुभयतत्त्वकम् । विमतं तर्कपड्यत्वान्मरीचिषु यथोदकम् || परोक्तश्रुतेस्तात्पर्याभावाच्च । तत्प्रतिपादकेति । जगति सद्विविक्तत्वस्या- सद्वैलक्षण्यस्य च प्रतिपादकेत्यर्थः । उक्तस्मृतौ हि यतोऽनीश्वरमीश्वरानु- पादानकमतोऽसत्यं सत्योपादानशून्यं, अतश्च बाघावधिरूपप्रतिष्ठा- शून्यं जगदिति ये माध्यमिकादयो वदन्ति तन्निन्दया सत्येश्वरोपादानकं तत् स्वबाधावधिसहितमिति प्रतिपादितम् । तथाच सदुपादानकत्वा- द्वाध्यत्वाच्च सदसद्विलक्षणमिति मन्मतमेव तदिति भावः । शास्त्रदर्प- णोक्तामधिकरणरचनामाह --- तथाहीत्यादि । वदतः प्रतिपादयतः । समन्वयस्य प्रथमाध्यायस्य । तर्कपड्यत्वादिति । तर्कविरुद्धरूपा- दित्यर्थः । तथाच न सत् बाधयोग्यत्वात्, ना सत् कालादि- 1 पादानजन्यं.