पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाधोद्धारः 489 wom लीना ब्रह्माणि तत्परा योनिमुक्ताः । तदात्मतत्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोक : ' इत्यभेद एव श्रूयते । अतो न भेदज्ञानस्य मोक्षहेतुत्वम् । एतेन नेह नानेति श्रुतिरेव विश्वं सत्यमित्यवाध्यत्वरूपबाधनिषेधाय विज्ञानवादिप्राप्त विश्वनिषेधा- नुवादिनी किं न स्यादिति निरस्तम् । भावाभावयोः परस्परविरह- रूपत्वे समेपि भावग्रहो निरपेक्षत्वान्नाभावग्रहमपेक्षते, अभावग्रहस्तु सप्रतियोगितया भावग्रहमपेक्षते । अतो नेति श्रुतेरेव सत्वश्रुत्यपेक्षा, पृथक् तदुभयविलक्षणाखण्डरूपेण मत्वा तेनामृतत्वमेतीत्यर्थ उक्तवाक्ये सम्भवति; तथाप्युत्तरवाक्येन पौनरुक्तयाद्यापत्त्या न तथार्थः । उत्तरं हि वाक्यं – ‘ उद्गीथमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं स्वप्रतिष्ठाक्षरं च । अत्रा- न्तरं वेदविदो विदित्वा लीना' इत्यादिकं, प्रेरितारं मत्या अमृतत्वमे- तीत्युद्गीथमात्रमेतन्नत्वमृतत्वोपघायक हेतु निर्णायकम् । तस्मिंस्त्रयमित्या- दिना सर्वान्तरत्वेनोच्यमानं 'परमं तु ब्रह्म वेदविदो विदित्वा' वेदने' करणेन साक्षात्कृत्य उक्तब्रह्मणि लीना उपाधिमात्रलयेनैकीभूताः योनिमुक्ता जन्महीना भवन्तीत्यर्थ कमित्याशयेनाह–तथोत्तरत्रेति । श्वेताश्वतरीयोक्तवाक्योत्तरं द्वितीयाध्यायेऽपि तथोक्तमित्याशयेनाह-- तदात्मतत्वमिति । वीतशोक इत्यस्योत्तरं ' यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत्' इति वाक्यम् । तथाच युक्तः त्रिरुन्नत- मित्यादिना पूर्वोक्तयोगविशिष्टस्सन् दीपोपमेन स्वप्रकाशन, येना त्मनस्तत्त्वेनानारोपितरूपेणाभिन्नं ब्रह्मतत्वं प्रपश्येत् तत्तु तदखण्ड- मेव प्रकर्षण श्रवणायुत्तरं सम्यग्वेदान्तवाक्येन ईक्षित्वा साक्षा- त्कृत्य एको द्वितीयशून्यस्सन् कृतार्थो भवते भवति प्राप्नोति तदात्म- तत्त्वमिति वेत्यर्थ इति जीवपरयोरैक्यधीरेव मोक्षहेतुरिति भावः । एतेनेति । पुरुषार्थभूतनिष्प्रपञ्चसुखबोधकवाक्यशेषत्वस्य सप्रपञ्चवाक्ये 1 वेदनेनेति. A.S.V. 32 --