पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

480 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः विशिष्य निषेधे विशिष्य निषेध्यसमर्पणस्योपयोगात् । अथ निषेधवाक्यस्य न निषेध्यसमर्पकवाक्यान्तरापेक्षा; अन्यथा 'न त्वादिविशेषरूपैर्निषेध्यसमर्पणेऽपीत्यर्थः । विशिष्य निषेध इति । आका- शत्वादिप्रत्येकनिषेधांशे इत्यर्थः । विशिष्य निषेध्यसमर्पणस्य आका- त्वादिप्रत्येकरूपेण निषेध्यबोधकवाक्यस्य | उपयोगात् किंचनेति प्रक्रान्त- परामर्श सर्वनाम्ना बोधनायोपयोगात् । तथाच विश्वसत्यतात्वादिप्रत्येक रूपेण विश्वं सत्यमित्यादिवाक्ये ' यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ' इत्यादिवाक्ये चाकाशत्वादिना यत्प्रक्रान्तं तदेव सर्वनाम्ना परामृश्य निषिध्यत इति सर्वनाम्ना परामर्शार्थं पूर्व विश्वसत्त्वादिकं श्रुत्याऽनुद्यत इति भावः । अथवा किंचनेत्यनेन सामान्यतो निषेधाधिकरणा नन्तर्भा- वेन निषेध्यसमर्पणेऽपि विशिष्य तत्तदधिकरणान्तर्भावेन निषेधं प्रति तत्तदधिकरणे निषेध्यसमर्पणस्य प्रतियोगिप्रसक्तेरुपयोगादित्यर्थः । निषे- धाधिकरणविशेषे प्रतियोगिप्रसञ्जकतयोक्तवाक्यानामुपयोग इति भावः । विशिष्य प्रक्रान्तबोध कसर्वनाम्नो विशेष रूपबोधकवाक्यसापेक्षत्वात् ब्रह्माण प्रपञ्चनिषेधवाक्ये तत्र प्रपञ्चप्रसञ्जकवाक्यस्येव 'विकारो नामधेय मृत्तिकेत्येव सत्यमेवं सोम्य स आदेशः तत्सत्यं स आत्मा, सत्यस्य सत्यम्, तेषामेष सत्यम्' इत्यादिवाक्येषु प्रपञ्चासत्यत्वबोधकेषु प्रपञ्च- सत्यताप्रसञ्जकस्य विश्वं सत्यमित्यादिवाक्यस्योपयोगाच्च । एवं 'सोम्य सः' इत्यस्य यथा मृदेव सत्या न तद्विकारः, एवं ब्रह्मैव सत्यं न ताद्वकार इत्यर्थकत्वम्, तत्सत्यमित्यस्य तदेव सत्यमित्यर्थकत्वम् । 'ऐतदात्म्यमिदं सर्वम् इत्येतत्पूर्ववाक्यपरिपोषणस्य तदैव सम्भवात् । एतेन किंचिनेत्यनेन सामान्यतो निषेध्यसमर्पणेऽपि विशिष्य निषेध्य- समर्पणस्य तदसाध्यत्वेन तत्र विश्वं सत्यमित्याद्युपयुक्तमित्यर्थोऽसङ्गतः, सर्वनाम्नः किंशब्दस्य विशेषरूपेण दृश्यत्वादिसामान्यरूपेण वा उप- 1 करणादण्तर्भावे निषेध्य. 2 चोपस्थापक. ,