पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाधोद्धार: 477 स्वार्थ - एतदभिप्रायं च पूर्वोक्तं नयविवेकवाक्यम् । न चानुवाद - कत्वेऽपि नैष्फल्यमात्रं नत्वप्रामाण्यम्, याथार्थ्यमेव प्रामाण्य न त्वनधिगतार्थगन्तृत्वे सति याथार्थ्यमिति वाच्यम् ? तात्पर्य - विषये शब्द: प्रमाणम् | “ यत्परश्शब्दः स शब्दार्थ: " इत्यभि- युक्ताभ्युपगमात् । अन्यथा स्वाध्यायविधिग्रहणानुपपत्तेरुक्त- कस्यचिद्विप्रतिपत्तिसम्भवेन तन्निरासप्रयोजनकानुवादतायामपि परतासम्भवात् दृष्टार्थत्वे सम्भवत्यदृष्टार्थत्वस्यान्याय्यत्वात् । विप्रति- पत्तिनिरासस्य पुरुषमात्रप्रयोजनापर्यवसानं तु विश्वसत्यत्वश्रुतावपि तुल्यमित्युक्तम् । एवं पूषानुमन्त्रणमन्त्रादीनामुत्कर्षो न स्यात्, विप्रति- पत्तिनिरासार्थकस्वार्थपरत्वसम्भवे लिङ्गकल्प्यश्रुत्या विनियोगस्यान्याय्य - त्वादित्याशयेन “अग्निर्हिमस्य भेषजम्" इत्यादीत्यत्रादिपदस्योक्त- त्वात् । अग्निर्हिमस्येत्यादावुक्तापत्तौ नाचार्याणामास्था । एतदभि- प्रायमिति | सापेक्षानुवादे हि न प्रमितिः, न तु दैवादनुवादे, धारा- वहनवदिति नयविवेकोक्तेर्निष्प्रयोजनानुवादे न प्रमितिः । प्रयोजन- वदनुवादे तु प्रमितिः, यथा धारान्तःपातिद्वितीया दिबुद्धिः केवल- घटाद्यंशेऽनुवादरूपापि तत्तत्क्षणविशिष्टविषयका ज्ञाननिवृत्तिरूपप्रयोजन- सत्त्वेन प्रमितिरित्यर्थ इति भावः । एवंचान्यतोऽसिद्धप्रयोजनवदबाधित. विषय एव प्रमात्वलक्षणे निवेश्य, न तु तत्राज्ञातत्वमपि निवेश्यम् | औत्पत्तिकसूत्रस्थेनानुपलब्धिपदेनापि लक्ष्यभूतप्रमाज्ञानीयप्रकृतप्रयोजन- वदुपलब्धेरविषयत्वविवक्षणान्न तदनुपपत्तिरिति बोध्यम् ॥ वस्तुतस्तु विद्वद्वाक्यादर्शनां न स्वार्थपरतायामुक्ताधिकरणस्य- तात्पर्यम् ? अपितु स्वार्थानुवादाधीनसमुदायसिद्धिद्वारा अधिकारवाक्य- 1 प्रमेये घण्णां फलसम्बन्धे तेषां तात्पर्यमित्यत्र तस्य तात्पर्य, धूमोऽस्तीति वाक्यस्य वह्निमत्तायामिव । एवंचाधिगतार्थे प्रमात्वस्वीकारे बीजाभा- 1 प्रमेयैः. ,