पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] आगमबाधोद्धारः अतएव तत्र वाक्यैकवाक्यतोक्ता । अन्यथा अर्थवादवत्पदैक- वाक्यतैव स्यात् — इति वाच्यम् ; प्रत्यक्षसिद्धे वादिविप्रतिपत्ति- निरासरूपप्रयोजनवचेन प्रमाणान्तरस्य सप्रयोजनतया स्वार्थ- परत्वोक्तौ 'अग्निर्हिमस्य भेषजम् ' इत्याद्यपि तेनैव प्रयोजनेन सप्रयोजनं स्वार्थपरं च स्यात् । तथाच न प्रत्यक्षसिद्धे वादिविप्रतिपत्तिनिरासार्थमन्यापेक्षा दृष्टान्ते तु समु- दायानुवादेन द्वित्वसम्पादनस्योद्देश्यस्यान्यतो लब्धुमशक्य- द्वाक्यमिति मतं ; तत्र लक्षणाकल्पने मानाभावः । नामार्थतावच्छेदके समुदाये स्वाश्रयतद्धटकत्वसम्बन्धेनाग्नेयादिनामार्थे वा द्वित्वाश्रयत्वसम्भ- वात् । न चैवं ' पौर्णमास्यां पौर्णमास्या' इत्यादिवाक्यद्वयं व्यर्थमिति- वाच्यम्; त्रिकयोः प्रयोगद्वयविधायकत्वस्यैकादशे वक्ष्यमाणत्वात् । अन्यथा आग्रेयादीनां प्रत्येकमुत्पत्तिवाक्ये कालयोगात्प्रत्येक प्रयोगा- पत्तेरिति द्वितीयद्वितीये स्थितम् ॥ 475 स्वार्थपरतां घटयति – अत एवेति । वाक्यैकवाक्यतेति । अधिकारवाक्यापेक्षितसमुदायप्रतीतिप्रयोजकतेत्यर्थः । सा चैकपदोपा- तत्वेन साहित्यप्रतीतिद्वारत्युक्तम् | द्वित्वसम्पादनस्येति । अधिकार- वाक्याधीन द्वित्वबोधनस्येत्यर्थः । ननु – प्रत्यक्ष सिद्धेऽपि भावरूपाज्ञाने विप्रतिंपत्तेस्त्वयाङ्गीकारात्तत्र श्रुत्यनुमानाद्युपन्यासाच्च, प्रत्यक्षविषयत्वा- दिना मीमांसकादिसिद्धेऽपि वाय्वादौ तार्किकादर्दानां विप्रतिपत्तेश्च, प्रत्यक्षे विप्रतिपत्त्याहितप्रामाण्यसंशयेन तद्विषयेपि संशयसम्भवात्तन्निरास- रूपं प्रयोजनं सत्वानुवादश्रुतेसम्भवत्येवेति – चेत्, भ्रान्तोऽसि, नव- ज्ञानं भावरूपत्वेन कस्यापि प्रत्यक्षासद्धम् ? येन तत्र तद्रूपेण विप्रति- पत्तिर्न स्यात् । न वा प्रत्यक्षो वायुरित्यादौ तार्किकादीनामित्र व्यव- हारकालाबाध्यो घटादिरित्यत्र कस्यापि विप्रतिपत्तिः । त्रि'कालाबाध्य- 1 त्रिकालबाध्य.