पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः ] आगमबाधोद्धारः ननु 'षड्विंशतिरस्य वङ्कः ' इति मन्त्रस्याश्वमेधे चोदकप्राप्तस्य 'चतुत्रिंशद्वाजिनो देवबन्धोः' इति वैशेषिकमन्त्रेणापोदितस्य वैशेषिकमब्रस्य च चतुस्त्रिंशदित्यादेर्वाचस्तोमादौ विनियोगान्न वैय- र्थ्यम् । एवञ्च विकल्पोऽपि नाष्टदोषदुष्टो भविष्यति । एवकार- श्रयायोगस्यान्ययोगस्य वा व्यावृत्त्यनुवाद इत्यपास्तम् । निषेध- पूर्वकैवकारस्य स्वसमभिव्याहतार्थानुवाद्यताज्ञापकत्वात् । यच्छ- ब्दादिवत् विधिविरोधित्वात् । अतएव ' उपवासाः पतन्ति' इत्युक्ते उपवासानेव कुरु न गच्छेत्यत्र गमननिवृत्तिरेव विधेया, न तूपवास इति सर्वसिद्धम् । यत्र तु न निषेधपूर्वकैवकारो यथा 'त्रीणि ह वै यज्ञस्योदरणि गायत्री बृहत्यनुष्टुप् अत्र थेंबापतन्ति' इत्यादौ तत्रैवकारसम्बन्धस्य विधानेऽपि न क्षतिः | प्रकृते विकल्पग्तु बहुवचना- न्तपाशमन्त्रवन्न विरुध्यते, तदभावे तु वैशेषिक मन्त्रस्य प्रकरणबाधो दोषः । न चाघ्रिगुप्रैषस्या विधेयत्वेऽपि एवकारार्थस्य वैशेषिक मन्त्ररूपान्यनिवृत्ते' विधेयत्वसम्भवेन न चतुस्त्रिंशदित्येवानुवादः किं न स्यादिति - वाच्यम् ; तावतापि शास्त्र प्राप्तस्य निवृत्तिविधानेन विकल्पानपायात् | अतएवात्र ह्येवावपन्तीत्यादावप्राप्तपरिसङ्ख्यैवाङ्गीकृता कौस्तुभे । तन्त्ररत्न- कारस्य तु तत्रैवकारार्थविधिमङ्गीकुर्वतस्तत्र विकल्पापत्तिः । तद्वदेवेहापि तदभावापत्तिः । न चैवमपि विनिगमनाविरह इति वाच्यम्; एवकारस्य अयोग।न्ययोगव्यावृत्तिरूपसन्दिग्धार्थकत्वेन तद्यक्तवाक्यस्य चरमत्वेन च न चतुस्त्रिंशादित्यस्यैव निषेधविधायकत्वादिति नवमचतुर्थे स्थितम् । तथाच वैशेषिकमन्त्रेणापोदितस्य' प्राकृतमन्त्रस्य न चतुस्त्रिंशदित्यादिना यथा प्रतिप्रसवः, तथा मिथ्यात्वयाऽपोदितस्य जगत्सत्यत्वस्य 'विश्वं सत्यम्' इत्यादिश्रुत्या प्रतिप्रसव इति न साऽनुवाद इति शकते -- ननु षड्विंशतिरित्यादि । इति मन्त्रेति । इत्यादिमन्त्रेत्यर्थः । 1 न्ययोगनिवृत्तेः. 2 णापादितस्य. 463