पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः - परिदृश्यमानं जगत्, युवयोरित् युवयोरेव युवाभ्यामेव सृष्टम् । अथवा - युवयोरेव विश्वं सर्व स्तोत्रं सत्यं यथार्थम् । यद्यद्गुण- जातं स्तुत्या प्रतिपाद्यते तत्सर्व युवयोर्विद्यमानमेव न त्वारोपित- मित्यर्थः । आपो व्यापनशीला देवताः, अनुपलक्षितानि पञ्च- भूतानि वा । युवयोव्रतं जगदुत्पादनाख्यं कर्म न हिंसन्ति इत्थं महानुभावौ युवां जिगातम् । शेषं पूर्ववव्याख्येयम् । तथाच स्तुतिपरतया नास्य विश्वसत्यत्वे तात्पर्यम् । 'शाक्मना शाको अरुणस्सुवर्ण आयो महश्शूरस्सनादनीलः । यच्चिकेत सत्यमित्तन मोघं वसु स्पार्हमुत जेतात दाता' इत्यस्याप्यष्टमाष्टकस्थस्येन्द्र- स्तुतिपरतया न विश्वसत्यत्वे तात्पर्यम् । तथाहि - शाक्मना शाकैच शाक्मा तेन शाक्मना बलेन । शाकः शक्तः, स्वशक्तचैव सर्व कर्तुं शक्त इत्यर्थः । न हीन्द्रस्य सहायान्तरापेक्षाऽस्ति, इन्द्रत्वादेव । अरुणः अरुणवर्णः कश्चिच्छोभनवर्णः पक्षी तथा व्याख्याने मानाभावात् । पदद्वयत्वेन व्याख्यातयोरपि बहुस्थलेष्व- ध्ययनसम्प्रदायसिद्धम्यैकपदस्य दर्शनात् । तथाहि --द्वितीयाष्टकप्रथ- माध्यायीयैकादशवर्गीयायां षष्ठयां चतुर्थ्यामृचि " ददाति मह्यं यादुरि " इत्यत्र यादुरीत्यस्याध्ययनसम्प्रदायसिद्धे एकपद्येऽपि दुरी आदरवती या मह्यन्ददातीति पदभेदेन माधवीयभाष्ये व्याख्यातम् । एवं – न हि देवो न मर्त्यो महस्तव ऋतुं परः । मरुद्भिरम आगहि इत्यादौ ऐकपद्येनाधीयमानस्यापि नहीत्यादर्नैवेति पदभेदेन व्याख्यातम् । वामनसूक्ते सलिलमित्यस्यैकपद्येन पठ्यमानानामपि सकारलिकारलका- राणां परमात्मजीवतदैक्यपरतया पदभेदेन श्रुत्यन्तरप्रमाणोपन्यासपूर्वकं व्याख्यानं माधवीयभाध्ये कृतम् । 'अरुणो मासकृद्धक 46 इत्यत्र अरुणो मा इत्यस्य पृथक्पदत्वेन पठ्यमानस्यापि मासकृदित्येक पदत्वेन निरुक्तकारैर्व्याख्यातम् । न त्वारोपितमिति । न प्रातीतिकमित्यर्थः । 444