पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ प्रथमः 432 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां त्वात्, मिथ्यात्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वाद्वा; दृश्यत्ववत् । दृश्यत्वं परमार्थ सदवृत्ति, अभिधेयमात्रवृत्तित्वात्, मिथ्यात्वं मिथ्यात्वत्वम् । व्यापकं व्यापकतावच्छेदकम् । तेन मेयत्वादिरूपेण व्यापकत्वमादाय न सिद्धसाधनम् । अत्यन्ताभावा- प्रतियोगित्वादिति । तादृशात्यन्ताभावप्रतियोगितानवच्छेदकत्वे तात्प र्यम् । नचात्यन्ताभावप्रतियोगितानवछेदकत्वस्यैव साधकत्वसम्भवेनान्य- वैयर्थ्यमिति वाच्यम्; साधनवैकल्यापत्तेः । न च मेयत्वं ब्रह्मत्वं वा दृष्टान्तोस्त्विति वाच्यम्; मन्मते मेयत्वस्यापि तदभावात् ब्रह्मत्वस्यापि परमते घटादिनिष्ठोक्तात्यन्ताभावप्रतियोगितावच्छेदकत्वात् । स्वरूप - सम्बन्धावच्छिन्नाहि प्रतियोगिता हेतौ साध्ये च निवेश्या । अन्यथा स्वरूपासिद्धिबाधयोरापत्तेः | यदि तु ब्रह्मत्वेन स्वरूपसम्बन्धावच्छिन्नप्रति- योगितायामपि मानाभावात् परमतेऽपि न ब्रह्मत्वमवच्छेदकं तदाऽस्तु तदेव हेतु । न च स्वरूपासिद्धि; मिथ्यात्वत्वस्य तत्तद्धीविषयत्वापेक्षया गुरुत्वेन उक्तावच्छेदकत्वाभावात् । न चैवं प्रपञ्चे मिथ्यात्वस्याभावे- प्युक्तसाध्योपपत्तिरिति वाच्यम् । उक्तोभयान्यवृत्त्यत्यन्ताभावप्रतियोगि- तावच्छेदकं यद्विशिष्टव्यापकतावच्छेदकं तदन्यत्वस्य साध्यत्वात् । प्रपञ्चे मिथ्यात्वाभावे च मिथ्यात्वत्वसमनियतलघुधर्मम्यावच्छेदकत्वात्तस्य च मिथ्यात्वव्यापकतावच्छेदकत्वेन मिथ्यात्वत्वे साध्यानुपपत्तेरिति ध्येयम् । दृश्यत्वं परमार्थसदवृत्तीति । दृश्यत्वं दृक्प्रतियोगिकत्वविशिष्टं व्या- वहारिकं तादात्म्यम् । प्रपञ्चनिष्ठस्य ब्रह्मतादात्म्यम्य ब्रह्मण्यपि सत्त्वात् बाधः । अत आद्यम् । ब्रह्माण ब्रह्मणः प्रातीतिकतादात्म्ये बाधादन्त्यं विशेषणम् । न च तयोर्ब्रह्मवृत्तित्वम्मिथ्येति साध्यसत्त्वान्न बाध इति वाच्यम्; तथाप्यनुमानफलम्य ब्रह्मान्य सर्वामिथ्यात्वसिद्धेस्तद्विशेषणफ- लत्वात् तदभावे परमार्थवृत्तित्वमिथ्यात्वेनैव साध्यसिद्धयोक्तफलाला- भात् स्वरूपासिद्धेश्च । अभिधेयमात्रवृत्तित्वात् । अवाच्यावृत्तित्वात्