पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भाविबाधोद्धारः 407 तं प्रत्यपरोक्षत्वात् यदेवं तदेवं यथा चैत्रं प्रत्यपरोक्षो घटो न चैत्रमायाकल्पितः । विमतं न जीवकल्पितम् तस्मिन् सुषुप्तेऽ प्यवस्थितत्वात्, आत्मवत् । न चासिद्धिः, प्रत्यभिज्ञानात् । अदृष्टादेरभावे पुनुरुत्थानायोगाञ्चेत्यपि निरस्तम्; आद्ये ऐन्द्र- जालिकं प्रत्यपरोक्षे तन्मायाकल्पिते व्यभिचारात् । मायाविद्य- योरभेदेन देहात्मैक्यभ्रमे व्यभिचाराच्च । द्वितीयेत्वसिद्धेः । न च प्रत्यभिज्ञया प्रपज्जस्य स्थायित्वसिद्धेनांसिद्धिः । सुषुप्तिकाल - स्थायित्वासाधकत्वस्य प्रत्यभिज्ञाया दृष्टिसृष्टिसमर्थने वक्ष्य- आवरणस्यैव तत्र प्रयोजकत्वादिति ध्येयम् । ऐन्द्रजालिकमिति । न च तत् मायाकल्पितं तेन न दृश्यत इति वाच्यम्; तथा सति तदुपादानकप्रवृत्तिः तस्य न स्यात्, तत्र तत्प्रत्यक्षस्यहेतुत्वात् । दृश्यते हि स स्वमायानिर्मिताम्रफलादानच्छेदनदानादौ प्रवृत्तः । अतएव मायायुद्धे स्वमायानिर्मितगजतुरगशस्त्रादिव्यापारे प्रवर्तन्ते । न हि तावत्पदार्थानां दर्शनं विना तेष्वसाधारणतत्तद्वयापारे प्रवृत्ति- र्घटते । किञ्च हरिवंशादौ प्रद्युम्नशम्बरयुद्धादौ-- ततो मायां परां चक्रे देवशत्रुः प्रतापवान् । सिह्मान् व्याघ्रान् वराहांश्च तरक्षून् ऋक्षवानरान् || मुमोच धनुरायम्य प्रद्युम्नस्य रथोपरि । गन्धर्वास्त्रेण चिच्छेद सर्वांस्तान् खण्डशस्तदा || प्रद्युम्नेन तु सा माया हता तां वीक्ष्य शम्बरः । अन्यां मायां मुमोचाशु दानवः क्रोधमूर्छितः || निहतां हस्तिमायां तु तां समीक्ष्य महासुरः । सैझीं मायां महातेजाः सोऽसृजद्दानवेश्वरः ||