पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः भाविबाधोद्धारः 403 दात्मवदिति अनुमानान्तरं भविष्यतीति मतम्, तन्न; प्राति- भासिके शुक्तिरूप्यादौ व्यभिचारात् । न च तत्रासद्विलक्षणत्व- हेतुरेव नास्तीति वाच्यम्; असद्विलक्षणत्वाभावे हि अपरोक्षतया प्रतीतिरेव न स्यात् । ननु तर्ह्यसद्विलक्षणत्वे तद्विरुद्सद्विलक्षण- त्वायोगः । तथाच साध्यस्यापि विद्यमानत्वान्न व्यभिचार इति चेन्न; सन्त्वे सर्वजनसिद्धबाधविरोधात् । गजादौ गोवैलक्षण्येऽपि तद्विरुद्वाश्वबैलक्षण्ययोगवत् सद्वैलक्षण्येऽपि असद्वैलक्षण्ययोगो- पपत्तेः प्रथमामथ्यात्वनिरुक्तावुक्तत्वात् । ननु विमतं न चैतन्याज्ञानकार्यम् । न तत्कार्यधीविषयः । न तत्कार्यसत्त्ववत् । बिम्बं तु न कल्पितमिति वक्ष्यत इति, तदपि तुच्छम् ; जीवेsपि हि तत्त्वत्तो नित्यमुक्तिरिष्ठैव । कल्पकत्वं तु देहाद्यभावेऽपि युक्तम् तस्य तदव्याप्यत्वात् । उपहितस्यापि युक्तमेव तत्, तस्यानादित्वेन देहाद्यनपेक्षत्वात् । न च तस्य स्वान्यं प्रति कल्प- कत्वसम्भवेऽपि स्वं प्रति कथमाश्रयत्वं भासकत्वं चेति वाच्यम्; घटाभावादेः कल्पितस्वाश्रयत्वस्येव तत्र तस्य सम्भवात्, तस्या. श्रितत्वमास्यत्वाभावेऽपि क्षतिविरहाच्च । शुद्धस्येव तस्यापि स्वप्र- काशत्वसम्भवात् अस्वप्रकाशत्वरूपः मिथ्यात्वहेतुस्तु तत्साधारणः कार्यः । तदिदमुक्तं अविद्याध्यासस्य अध्यासान्तरानपेक्षत्वा दित्यादि । बाध- विरोधादिति । न च बाघोपपत्तये रूप्यादेरसत्त्वं प्रत्यक्षोपपत्तये च सत्त्वं कल्प्यतां त्वन्मते सत्त्वासत्त्वयोः निषेधस्येव विधेरपि समु- चयसम्भवादिति वाच्यम्; बाधोपपत्तये हि प्रतिपन्नाधिकरणवृत्त्य- भावप्रतियोगित्वं स्वीकर्तुमुचितं, न तु सत्त्वेना प्रतीयमानत्वघटित- मसत्त्वं, तदघटितं तत्तु रूप्यादाविष्टम् । प्रत्यक्षोपपत्तये च साक्षि - , 1 न्तरापेक्षत्वा. 2 सत्त्वेन. 26*