पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] भाविबाधीद्धारः

अतीतादावपि सूक्ष्मरूपे तत्सस्वात् । अतएव स्वज्ञानकारणत्व- मात्रेण मिथ्यार्थस्य कारणत्वानुपपत्तिकरणं स्वाज्ञानादेव विद्यमान इव अविद्यमानेऽपि विद्यमानध्वंसप्रतियोगित्वादिकं यथा न सम्भवति तथोपदिष्टम् । पूर्वभावित्व चोक्तरूपं यागादावस्त्येव, व्यापारादि- सम्बन्धावच्छिन्नतदभावस्य तदीयव्यापारादिसम्बन्धविरुद्धत्वात् । अत- एव संयोगेन गगनादेः पृथिवीत्वादिव्यापकत्वपरे तदभाववतोऽपि पृथिव्यादेर्वृत्त्यनियामकसंयोगेन तत्सम्बन्धित्वादित्यादिदीधित्यादिवाक्ये उत्पत्त्यादिकालावच्छेदेन पृथिव्यादौ गगनादे: वृत्त्यनियामकसंयोगे- नाभाव इत्यर्थकत्वं व्याचक्षते । यदि च तत्र सर्वदा तद्भाव इत्यर्थ - कत्वं, तथापि न क्षतिः । तद्वदेव प्रकृतेऽपि स्वप्रतियोग्यसम्बन्धि यत्कार्यसम्बन्धि तद्वृत्यभावाप्रतियोगित्वस्य सत्त्वादिति ध्येयम् । तज्ज्ञा- नमासीदित्यनुभवस्तु न बाध्यत्वविरोधी, बाध्येष्वेव मन्मते अतीतसत्ता- सम्बन्धात् । अन्यथा अत्रेन्द्रजालमासीत् अत्र गन्धर्वनगरमासीदिति धार्नस्यात् । त्वन्मते परं तदनुपपत्तिः, प्रातीतिकस्यखपुष्यवदसत्त्वा- भ्युपगमात् । न हि भवति खपुष्पमासीदिति । साक्षिस्वरूपबाधाभा- वस्तु न, उपहितस्य साक्षित्वेन तस्यापिबाधात् । जन्यज्ञानान्तर्भावे - नोक्तनियमो वा, विषयबाधकबाध्यतायोग्यत्वं हि तन्नियमे प्रयोजकम् | तच्च जन्यस्यैव, 3 ज्ञानस्य विषयोपादानाज्ञानोपादेयत्वात् । प्रतीति- कालसत्त्वं तु प्रतीतिकालसम्बन्ध इत्युक्तमिति तुच्छत्वानापत्ति: । आरोपित मिथ्यात्वहतावारोपितपदेन मिथ्यात्वेनोभयसिद्धोक्तावपि जीवा- नणुत्त्वादिमिथ्यात्वस्य त्वया मया च मिथ्यात्वेन सम्मतत्वात् तत्र व्यभि- चारो मन्मतरीत्या दुर्वारः ; मन्मते तस्य सत्त्वाभावनिश्चयात् । किञ्च उक्तसिद्धत्वं यदि ज्ञातत्वं, तदा शुक्तिरूप्यादिमिथ्यात्वेऽपि कदाचित्व- यामिथ्यात्वेन ज्ञेयत्वात् त्वन्मतेऽपि व्यभिचारः । यदि प्रमितत्वं, तदा - 1 यथा संभवति. 2 र्भावेण. 3 ज्ञानविषयाज्ञानविषयोपादानत्वात् 4 तुच्छे त्वनापत्तिः 26 A.S.V. 401 -