पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः जनकत्वाभ्युपगमे मिथ्याभूतस्यापि जनकत्वाद्वयभिचार एव । तथा चोक्तं शास्त्रदीपिकायां बौद्धं प्रति — “ अथ सुखज्ञान मेवार्थक्रिया तच्चाव्यभिचार्येव । न हि क्वचिदप्यसति सुखे सुखज्ञानमस्तीत्याशङ्कय सत्यमेतत् न तु तेन पूर्वज्ञानप्रामाण्या- ध्यवसानं युक्तम् । अप्रमाणेनापि प्रियासङ्गमविज्ञानेन स्वप्नावस्था - यां सुखदर्शनात् ” । इति । ननु विषयविशेषोपलक्षितस्यैव ज्ञानस्य सुखजनकत्वमस्तु, तत्कुतो विषयस्य जनकत्वमिति चेन्न; स्वरू- पाणामननुगततया ज्ञानत्वादेव अतिप्रसक्ततया अनुगतानतिप्र- सक्तोपलक्ष्यतावच्छेदकाभावादुपलक्षणत्वासम्भवात् । ननु विशे- षणत्वमप्यसम्भवि अनागतज्ञानजन्ये तत्कालाविद्यमानस्य विष यस्य पूर्वभावित्वरूपजनकत्वासम्भवादिति चेन्न; स्वव्यापारजन्ये व्यापारिणोऽसतोजनकत्ववत् स्वज्ञानजन्येऽप्यसतोजनकत्वसम्भ- वात् अतीतानागतावस्थस्य असत्त्वधर्माश्रयत्वेनैव अभ्युपगमात् । 396 1 च सा जातिरिति वक्तुं शक्यत्वात् । स्वाप्नेन प्रियादिना जाग्र- त्कालीनेन व्यवहारिकप्रिया दिज्ञानेन न्च सुखाद्युत्पत्तिसम्भवात्- जातिसाङ्कर्यस्यादूषकत्वात् दृष्टिसृष्टिवादे अर्थ एव तत्सम्भावाच्च स्वानज्ञानस्याप्रमात्वे संवादमाह - तथाचोक्तमिति । यथा स्वव्या पारादिसम्बन्धेन कारणत्वं तथा स्वज्ञानसम्बन्धेनेत्याह --स्वव्या- पारेति । यद्यतीतादिकं सूक्ष्मरूपेण विद्यमानं न स्यात् तदा वर्तमानध्वंसप्रतियोगित्वादिरूपासत्त्वस्य ज्ञान विशेष विषयत्वादेश्च वर्त- मानकालावच्छेदेन आश्रयो न स्यात् ; न ह्याश्रयासम्बद्धकालोड- वच्छेदकस्सम्भवतीत्याशयेनाह – अतीतेति । यदायदा यज्ज्ञान- स्वरूपाबाध:, तदा तद्विषयाबाध इति नियमात् स्वामज्ञानं बाध्य - , 1 प्रियादीनां. 1