पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः नित्यत्वाभाव- 1 त्वमुपाधिरित्यपि न युक्तम् । सत्त्वाभावं विनापि सम्भवेन अनित्यत्वस्य साध्याभावासाधकत्वात् । उक्ततर्केण सत्त्व- व्याप्तत्वेन गृहीतहेतोः अव्यापकत्वेन उपाध: साध्याव्यापकत्वग्र- हाच्चेति इति चेन्न; मन्मतमाश्रित्य प्रयोगे बाधायुक्तेः । त्वन्मते प्रयोगेऽपि निर्दोषत्वेनोभयसिद्धस्यैव हेतोस्त्वयामां प्रति प्रयोज्यत्वात् ; अन्यथा अतिप्रसङ्गात् । उभयवादीत्याधुक्तावपि न निस्तारः । न हि त्वया तार्किकेण वा सत्यत्ववादिना देहात्मैक्यस्य मिथ्यात्वमुच्यते, तार्किकेण तस्य भ्रमविषयत्वाङ्गीकारेपि मिथ्यात्वानङ्गीकारात् । भ्रमविषयत्वरूपमि- थ्यात्वनिवेशे च स्वरूपासिद्धिः, साधनवैकल्यं च । किञ्च जीवगतेऽनणु - त्वादौ त्वयैव मिथ्यात्वस्वीकारेण तत्र त्वन्मते बाघव्यभिचारादि । एवमम्मान् प्रति जीवाणुत्वादौ तत् । न चाहं मनुष्य इत्यादिप्रत्यये मन्मते मम शरीरमिति विशेषदर्शनात स्वामित्वादिदेहसम्बन्धस्यैव भानेन देहात्मै - क्याभानेप्युक्तविशेषादर्शनकाले तमस्याङ्गीकारात् तन्मिथ्यात्वमुभय- सम्मतमिति वाच्यम् । तथाप्येकस्य मिथ्यात्वस्य उभया सम्मतत्वात् त्वया हि तत्र सर्वदेशकालव्यावृत्त्यत्यन्ताभावप्रतियोगित्वरूपं मिथ्यात्व- मुच्यते, न तु सदसद्विलक्षणत्वादिरूपं, उक्तप्रतियोगित्वरूपमिथ्यात्व- निवेशे' चासदन्यत्वस्य वैयर्थ्यम् तदनुपादानेप्युभाभ्यां सिद्धत्वं ज्ञातत्वं प्रमितत्वं वा; आद्ये वस्तुमात्रस्यैव उक्तमिथ्यात्वेन ज्ञातत्वादप्रसिद्धिः, उभयज्ञातमिथ्य चवदन्यत्वनिवेशे ज्ञातान्तवैयर्थं तुच्छस्योक्तमिथ्यात्वे- नास्मद'ङ्गीकारात्तद्ध्यावर्तनासम्भवः । असदन्यत्व निवेशे त्वन्मते वैयर्थ्य- मुक्तम् । द्वितीयेऽपि प्रमितत्वान्तं व्यर्थम्, तुच्छव्यावर्तनासम्भवश्च । उक्तमिथ्यात्ववदन्यत्वमात्रं निवेश्यं, न त्वसदन्यत्वमित्युक्तावपि सदोषो- सदन्यत्वस्यापि सत्त्वेन प्रतीत्यर्हत्वरूपस्यास्मान् प्रति सार्थकत्वेन निवे- 390 1 उपायैः. 2 3 अणु. उभय. + 4 वेशाद्वा सत्पदस्य. 5 पा ॥ नङ्गीकारात्.