पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां शरीराजन्यत्वात्' इत्यत्र शररिस्यव व्याप्तिग्रहानुपयोगित्वेन प्रातिभासिकत्वस्य वैय्यर्थ्यमेव । आकाशादावजन्यत्वकर्तुजन्य- त्वाभावयोरिव निर्धर्मके ब्रह्माण अनधिकरणत्वपरमार्थसत्यंयो- व्याप्तिग्रहोपपत्तेः । तथा च एकामसिद्धिं परिहरतो द्वितीया - सिद्धयापत्तिः । स्वरूपासिद्धिपरिहारार्थ विशेषणं प्रक्षिपतो घ्याप्यत्वासिद्धिरित्यर्थः । व्याप्तावनुपयोगस्य दर्शितत्वात् । 386 [प्रथमः स्तैजस रूपादिषु मध्ये रूपस्यैव व्यञ्जकत्वादालोकवदित्यत्र मध्या- न्तानुपादाने दृष्टान्ते हेत्वभावेन साध्यहेत्वोः सहचाराग्रहात् मध्यान्तं व्याप्तिग्राहकमिति भावः । ननु व्याप्तेरिव पक्षधर्मताया अपि ग्राहकत्वेन सार्थक्यं कुतो न स्यात्, व्याप्तिग्राहकस्यापि सार्थ- कत्वऽनुमितिप्रयोजकत्वस्यैव तन्त्रत्वसम्भवात्तत्राह – व्याप्ताविति । एवेति शेषः । तथाच यद्विशेषणविनाकृतस्य व्याप्यतावच्छेदकत्व - सम्भवः, तद्वयर्थ, तद्घटितस्य गौरवेणानवच्छेदकत्वात् । न च व्याप्यतायाः स्वरूपसम्बन्धरूपस्य अतिरिक्तस्य वा अवच्छेदक- त्वम्यानङ्गीकारादन्यूनानतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्य गुरावपि स्वी- कारान्नोक्तरत्या वैयर्थ्यस्य दूषणत्वमिति वाच्यम्; व्याप्यताया उक्तावच्छेदकत्वस्यानङ्गीकारे कारणतादेरपि तदापत्ते: दण्डः कार- णमित्यादिधीरव धूमो व्याप्य इत्यादिधीरपि ह्यवच्छेदकत्वावगाहिनी सम्भवत्येव । अतएव कम्बुग्रीवा दिमत्त्वादिना व्याप्तिर्नेष्यत एव । तथाच स्वविशिष्टव्यापकसाध्यसामानाधिकरण्यावच्छेद कहेतुतावच्छेद- कादिरूपव्याप्तिधीविरोधित्वात् व्याप्यत्वासिद्धिविधयोक्तावच्छेदकत्व- शून्यहेतुतावच्छेदकरूपस्य व्यर्थविशेषणत्वस्य हेत्वाभासत्वं स्वरूपा- सिद्धिमात्रवारक विशेषणघटितहेतावपि तदक्षतमिति भावः । स्पष्ट- श्वायमर्थो मण्यादावीश्वरवादादौ । तत्र हि - शरीराजन्यत्वे व्यर्थ -