पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथम: प्रातिभासिकस्यासत्यानधिकरणत्वमङ्गीकृतमेव; अन्यथा तुच्छ- वारकासत्वानधिकरणत्वविशेषणेनैव तद्यावृत्तात्रेतावत्प्रयासवैय- र्थ्यापत्तेः । एवंच देहात्मैक्यस्यापि पक्षत्वे बाघ इव | बाधे च सति पक्षविशेषणस्य पक्षत्वस्यासिद्ध्याश्रयासिद्धिरपि । अतएव स्वबाधकाभिमताबाध्यदोषजन्यज्ञानाविषयत्वे सतीति वा स्वबा- 9 धकाभिमतबाध्यबाधाविषयत्वे सतीति वा स्वसमानाधिकरण- कर्मप्रागभावसमानकालीनज्ञानाबाध्यत्वे सतीति वा विशेषण- प्रक्षेपेजप न निस्तारः | देहात्मैक्ये पूर्वोक्तदोषाव्यावृत्तेरेव । पक्षतावच्छेदके ब्रह्मप्रमान्या बाध्यत्वादिनिवेशे च अङ्गीकृत मेवेति । तथाच देहात्मक्यस्य असदन्यत्वब्रह्मप्रमेत्यादिविशेषणयोः सत्त्वेन पक्ष- त्वावश्यकत्वेन प्रतिभासमात्रशरीरत्वरूपप्रातिभासिकत्वस्य हेतौ निवेशे स्वरूपासिद्धिः । ब्रह्मज्ञानान्यबाध्यत्वरूपतन्निवेशे च व्यभिचारः । न च पक्षीयव्यभिचारो न दोष इति वाच्यम्; अनुकूलतर्कसत्त्वे पक्षीयव्याभिचारसंशयस्य अप्रतिबन्धकत्वेऽपि प्रकृते व्यभिचारनिश्चय- सम्भवादिति भावः । पक्षत्वे पक्षत्वात् । बाध एव बाघोऽपि पक्षत्वस्य साधकबाधकमानाभावरूपस्य आश्रयासिद्धेिमध्येऽसिद्धिया धयोः प्राचीनैर्व्यवहारादित्युक्तम् । नव्यमते तु बाध एव; अनु- मित्युद्देश्यतावच्छेदकप्रकारधीविषयस्यैव आश्रयासिद्धित्वात् । स्वबाध केत्यादि । स्वं प्रातिभासिकं रूप्यादि, तद्बाधकाबाध्यः काचादिदोषः, तज्जन्यभ्रमज्ञानविषयः तदेव रूप्यादि, तदन्यत्वं व्यावहारिकमात्रे । बाधाविषयत्व इति । नेदं रूप्यामित्यादिबाघस्य रूप्यादिबाधका- बाध्यस्य निषेध्यत्वेन विषयो रूप्यादि, तदन्यत्वं व्यावहारिकमात्रे | समानाधिकरणं स्वसमानाधिकरणं यत्करणं यत्कर्म तत्प्रागभाव- समानकालीनज्ञानं ब्रह्माविषयकं तद्बाध्यं रूप्यादि । पूर्वोक्तेति । 1 प्रामाण्या. 382 1