पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्विव्याख्यायां गुरुचन्द्रिकायां विश्वसत्यत्वानुमानअङ्गः स्यादेतत् । अध्यक्षस्य भिन्नविषयत्वादिना बाधाक्ष- मत्वेऽपि अनुमानमेव बाधकं स्यात् । तथाहि – ब्रह्मप्रमान्येन वेदान्ततात्पर्यप्रमितिजन्यज्ञानान्येन वा मोक्षहेतुज्ञानान्येन वा अबाध्यत्वे सति असन्चानधिकरणत्वे सति ब्रह्मान्यत्, विमतं वा सत्, पारमार्थसा, प्रातिभासिकत्वान धिकरणत्वे सति अस द्विलक्षणत्वात् ब्रह्मवत् व्यतिरेकेण शशशुङ्गवद्वेति चेन्न । सूचितं चेदमाचार्यैः स्वाप्नगजादिज्ञानस्य स्वानगजाद्यभावधीबाध्यत्वं बदद्भिः । पूर्व स्फुरणरूपस्य कदापि बाघानुपलम्भपराहता च श्रुनौ शङ्काबाध्यता । अतएवान्यूनबलत्वेन बाधकत्वे न्यूनवादापत्ति प्रत्युक्ता | अपिच श्रुतिविषये ब्रह्मणि बाध्यत्वं ज्ञानोच्छेद्यकारणत्वं ज्ञानोच्छेद्य- प्रयोजनकत्वं वा स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वादिकं वा शङ्कनीयम् । न च सत्सम्भवति, ब्रह्मण्य कारणकत्वाप्रयाजककत्वा- नधिकरणकत्वानां त्वयापि स्वीकारात् । अतएव स्वात्यन्ताभावसामा- नाधिकरण्यादिकमपि न तथा, तत्रात्यन्ताभावप्रतियोगित्वस्य माना- भावादिना पूर्व निरस्तत्वाच्च । यत्तु परैः प्रत्यक्षस्य पारमार्थिकसत्त्व- ग्राहित्यमत्रोपपादितं, तत्पूर्वमेव न विश्व तद्योग्यत्वं 380 वा' इत्यादिना आशङ्कय दूषितत्वान्नेह दूषितम् || रत्नैः सारस्वतैस्तर्कैश्चन्द्रिका चन्द्रभूषणै । दुरन्तध्वान्तनाशाय गावियपादनम् || इति माविबाधोद्धार.. [ प्रथमः भिन्नविषयत्वादिनेति । श्रुत्यनुमानविषयमिथ्यात्वाविरोधि- व्यावहारिकसत्त्वविषयत्वादिनेत्यर्थ | आदिपदा त्रिकालाबाध्यसद्रूपतादा-